Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.19



मूलम्-

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन्॥१९
पदविभागः-
अर्थ-आगमः नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च । वश्यः च पुत्रः अर्थकरी च विद्या षड् जीव-लोकस्य सुखानि राजन् ॥१९
अन्वयः-
राजन्, १) नित्यम् अर्थ-आगमः, २) अरोगिता च, ३) प्रिय-वादिनी, ४) प्रिया च भार्या, ५) वश्यः च पुत्रः, ६) अर्थकरी विद्या (एतानि) षड् जीव-लोकस्य सुखानि च ॥१९
प्रतिपदार्थः-

राजन् = हे युधिष्ठिर, नित्यं = निर्बाधः
अर्थ-आगमः = धनागमः ;  
अरोगिता च = शरीरसौख्यं, स्वास्थ्यम्
प्रिय-वादिनी = मधुरभाषिणी ;  
प्रिया =हृद्या ;  
भार्या = पत्नी ;  
वश्यः = अनुकूलः
पुत्रः
अर्थकरी = धनकरी
विद्या ;  
एतानि षट् जीव-लोकस्य = मानवलोकस्य ;  
सुखानि = सुखकारकाणि ॥१९
तात्पर्यम्-
हे राजन्, निराघात-धनप्राप्तिः, शरीरस्वास्थ्यं, मधुरं वदन्ती, प्रियतमा च पत्नी, आज्ञाकारीपुत्रः, धनप्रापयित्री विद्या चएतानि षट् मानवलोके सुखकराणि इति मन्यन्ते।

No comments:

Post a Comment