Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.42



मूलम्-
हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम्॥४२॥
पदविभागः-
हीयते हि मतिः तात हीनैः सह समागमात् । समैः च समताम् एति विशिष्टैः च विशिष्टताम्॥४२॥
अन्वयः-
तात, हीनैः सह समागमात् मतिः हीयते हि । समैः च समताम् एति । विशिष्टैः च विशिष्टताम्॥४२॥
प्रतिपदार्थः-
‘ताते’ति सम्बोधनम् ; तात = हे वत्स! ;  
हीनैः = अधमैः, मूर्खैः ;  
समागमात् = मित्रत्वात्, साङ्गत्यात् ;  
मतिः = बुद्धिः ;  
हीयते = अल्पतामेति, क्षयमेति
समैः = स्वात्मतुल्यैः, ये समानबुद्धयः भवन्ति तैः सह ;  
समतां = समान-बौद्धिक-स्थितिं
विशिष्टैः = स्वस्माद् अधिकैः, ये विलक्षण-बुद्धयः भवन्ति तैः सह ; विशिष्टता= वैदुष्यं, महत्त्वञ्च ॥४२॥
तात्पर्यम्-
हे वत्स, अल्पबुद्धिभिः सहवासेन धीशक्तिः क्षीयते। स्वतुल्यधीभिः सह साङ्गत्येन समा धीस्थितिः भवति। स्वस्मात् विशेषेण अधिकमतिभिः सह सख्यतया नरः स्वयमपि महान् भवति।

हितोपदेश-सुभाषित-श्लोकाः - 0.41



मूलम्
काचः काञ्चनसंसर्गाद् धत्ते मारकतीर्द्युतीः ।
तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम्॥४१॥
पदविभागः-
काचः काञ्चन-संसर्गाद् धत्ते मारकतीः द्युतीः । तथा सत्सन्निधानेन मूर्खः याति प्रवीणताम्॥४१॥
अन्वयः-
काचः काञ्चन-संसर्गाद् मारकतीः द्युतीः धत्ते । तथा मूर्खः सत्सन्निधानेन प्रवीणताम् याति ॥४१॥
प्रतिपदार्थः-
काचः = मृत्तिकाभेदः ;  
काञ्चनम् = सुवर्णम्
संसर्गाद् = सम्पर्कात् ;  
मारकतीं = मरकतमणि-सम्बन्धिनीं, तत्तुल्यतामिति यावत् [मरकतः=पन्ना]
द्युतीः = प्रकाशान्
सत्सन्निधानेन = सतां साङ्गत्येन ;  
प्रवीणतां = कुशलतां, पाण्डित्यञ्च ;  
याति = लभते॥४१॥
तात्पर्यम्-
काञ्चनस्य सम्पर्केण काचः अपि मरकतमणिरिव कान्तिं प्राप्नोति। तथैव बुद्धिहीनोऽपि सज्जनानां सङ्गतौ कौशल्यं लभते।

हितोपदेश-सुभाषित-श्लोकाः - 0.40



मूलम्
मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्ठितः ।
तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते ॥४०॥
पदविभागः-
मूर्खः अपि शोभते तावत् सभायां वस्त्रवेष्ठितः । तावत् च शोभते मूर्खः यावत्किञ्चिन्न भाषते ॥४०॥
अन्वयः-
मूर्खः अपि सभायां वस्त्रवेष्ठितः तावत् शोभते । मूर्खः यावत् किञ्चित् न भाषते तावत् च शोभते ॥४०॥
प्रतिपदार्थः-
मूर्खः = मूढबुद्धिः, अल्पधीः, अर्धज्ञानी ;  
शोभते = साधु दृश्यते
सभायां = विद्वद्गोष्ठ्याम्
तावत् = निश्चयेन ;  
वस्त्रवेष्टितः = महार्ह-पट्ट-वस्त्रावृतः, (दुशाला ओढे हुए) ;  
भाषते = वदति ॥४०॥
तात्पर्यम्-
मूढः पुरुषः अपि (सुसज्जीभूय सुन्दर)वस्त्राणि धृत्वा सभायां निश्चयेन शोभनो दृश्यते । यावत्कालं सः किमपि न वदति, तावत् पर्यन्तं सः (पण्डित इव) आदरं प्राप्नोति।

हितोपदेश-सुभाषित-श्लोकाः - 0.39



मूलम्-
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥३९॥
पदविभागः-
रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः । विद्याहीनाः न शोभन्ते निर्गन्धाः इव किंशुकाः॥३९॥
अन्वयः-
रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः (अपि) विद्याहीनाः निर्गन्धाः किंशुकाः इव न शोभन्ते ॥३९॥
प्रतिपदार्थः-
रूपेण = सौन्दर्येण, शरीरकान्त्या च ;  
यौवनेन = युवत्वकृतेन वपुः ;  
सम्पन्नाः = शोभिताः अपि ;  
किञ्च--विशालकुलमम्भवाः = महाकुलप्रसूता अपि
विद्याहीनाः = मूर्खाः
निर्गन्धाः = (सुरूपा अपि) गन्धशून्याः ;
किंशुकाः = पलाशकुसुमानीव ; 
न शोभन्ते = लोके न विराजन्ते ॥३९॥
तात्पर्यम्-
सुन्दराः, युवकाः, उन्नत-कुले जाताः अपि नराः ज्ञानेन विना, गन्धहीन-किंशुक-पुष्पाणीव न शोभन्ते ।

हितोपदेश-सुभाषित-श्लोकाः - 0.38


मूलम्-

माता शत्रुः पिता वैरी येन बालो न पाठितः ।

न शोभते सभामध्ये हंसमध्ये बको यथा॥३८॥


पदविभागः-

माता शत्रुः पिता वैरी येन बालः न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बकः यथा॥३८॥


अन्वयः-

माता शत्रुः पिता वैरी येन बालः न पाठितः । सभा-मध्ये (सः) हंस-मध्ये यथा बकः (तथा) न शोभते ॥३८॥


प्रतिपदार्थः-

माता = जननी ; पिता = जनकः ; येन = पित्रा ; बालः = पुत्रः ; न पाठितः = अध्ययनं न कारितः, शिक्षा न प्रापयितः ; सभामध्ये = पण्डितानां समवाये, विद्वत्समाजे ; हंसमध्ये बक इव ; न शोभते = न प्रतिष्ठां लभते। 'याभ्या'मिति पाठान्तरम्॥३८॥


तात्पर्यम्-

यं बालं माता पिता च न ज्ञानं प्रदापयन्ति, तौ (तस्य) शत्रू इव भवतः । सः विदुषां पुरतः न स्थातुं शक्नोति । हंसानां समूहे बक इव स भवति।

यौ पितरौ स्वपुत्रं न शिक्षयन्ति तौ अशिक्षिताय स्वपुत्राय शत्रू भवतः, हंसानां समूहे बकः यथा न प्रकाशते तथैवायमशिक्षितः बालोपि विदुषां समूहे न शोभते, तस्मात् पितृभ्यामवश्यमपत्यानि शिक्षणीयानीति अस्य भावः.।