Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.162

🌷
मूलम्--
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे ॥१.१६२॥

🌺
पदविभागः--
परिच्छेदः हि पाण्डित्यं यद्-आपन्ना विपत्तयः । अपरिच्छेद-कर्तॄणां विपदः स्युः पदे पदे ॥१.१६२॥
🌸
अन्वयः--
पाण्डित्यं (तु) यदापन्ना विपत्तयः परिच्छेदः हि । अपरिच्छेदकर्तॄणां पदे पदे विपदः स्युः ॥१.१६२॥
🌼
प्रतिपदार्थः--
परिच्छेदः = सदसतोः सम्यक् ज्ञानं, विचारः ; पाण्डित्यं = विद्वत्ता, कौशलम् ; आपन्नाः = प्राप्ताः । अपरिच्छेदकर्तॄणाम् = अविचार्य कार्यमाचरताम्, अविवेकिनाम् = असन्तुष्टानां वा ॥१.१६२॥
🌻
तात्पर्यम्--
यदा  आपत्तयः आपतन्ति, तदानीं विचार्य कार्यकरणं विज्ञत्वमिति जानीयात्। ये विचारशीलाः न, तेषां तु मुहुर्मुहुः विपत्तयः भवन्ति  ॥१.१६२॥
🌿
हिन्द्यर्थः--
विपत्ति आने पर, विचार कर कार्य करना ही पाण्डित्य (बुद्धिमत्ता) है। विना विचारे काम करने वाले प्राणियों पर तो पद-पद में विपत्तियाँ आती है ॥१.१६२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.161

🌷
मूलम्--
को धर्मो भूतदया किं सौख्यं नित्यमरोगिता जगति ।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥१.१६१॥

🌺
पदविभागः--
कः धर्मः भूत-दया किं सौख्यं नित्यम् अरोगिता जगति । कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥१.१६१॥
🌸
अन्वयः--
कः धर्मः? भूत-दया। किं सौख्यं? जगति नित्यम् अरोगिता । कः स्नेहः? सद्भावः। किं पाण्डित्यं? परिच्छेदः ॥१.१६१॥
🌼
प्रतिपदार्थः--
कः धर्मः = किं कर्तव्यम् इति ; भूतदया = जीवेषु अनुकम्पा ; सौख्यम् = सुखम् ; नित्यम् अरोगिता = सदा आरोग्यं ; जगति = लोके ; स्नेहः = मित्रत्वम् ; सद्भावः = सहृदयभावः ; पाण्डित्यं = विद्वत्ता ; परिच्छेदः = विभागोपभागपूर्वकं ज्ञानं, सदसद्विवेको वा ॥१.१६१॥
🌻
तात्पर्यम्--
प्राणिकोटिषु दाक्षिण्यभावः एव धर्मः। लोके सदा स्वस्थता एव सुखम्। सौजन्यभावः एव मित्रत्वम्। विभज्य सदसतोः सूक्ष्मं ज्ञानम् एव विज्ञता भवति ॥१.१६१॥
🌿
हिन्द्यर्थः--
धर्म क्या है ? प्राणियों पर दया । संसार में सुख क्या है ? नीरोग रहना । स्नेह क्या है ? सद्भाव अनुराग, प्रेम । पाण्डित्य क्या है? सत् असत् का विवेक । अर्थात्- उचित अनुचित का ठीक ठीक समझना ॥१.१६१॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.160

🌷
मूलम्--
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥१.१६०॥

🌺
पदविभागः--
न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्ते अपि अर्थे भवति न आदरः ॥१.१६०॥
🌸
अन्वयः--
न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्ते अपि अर्थे भवति न आदरः ॥१.१६०॥
🌼
प्रतिपदार्थः--
तृष्णया = आशया ; वाह्यमानस्य = प्रेर्यमाणस्य ; योजनशतमपि न दूरम् = शतं योजनेषु अपि समीपभावः एव ; सन्तुष्टस्य तु = तृप्तिंगतस्य ; करप्राप्ते = हस्तगतेऽपि ; अर्थे = धने, वस्तुनि वा ; न आदरो = उन्नतभावः न भवतीत्यर्थः ॥१.१६०॥
🌻
तात्पर्यम्--
यः अतिलोभात् पीडितः सः शतयोजनस्थानमपि अल्पं मन्यते। यः सन्तृप्तिवान् भवति सः करमितेन धनेनापि महद्भावम् आवहति ॥१.१६०॥
🌿
हिन्द्यर्थः--
जो मनुष्य तृष्णा के वश में हो रहा है, उसके लिये तो १०० सौ योजन (चार सौ कोश) भी दूर नहीं है, पर जो प्राणी सन्तुष्ट है, उसको तो हाथ में आए हुए धन पर भी आदर नहीं होता है, किन्तु उसमें भी उसे उपेक्षा ही होती है ॥१.१६०॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.159

🌷
मूलम्--
असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।
अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥१.१५९॥

🌺
पदविभागः--
असेवित-ईश्वर-द्वारम् अदृष्ट-विरह-व्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्य अपि जीवनम् ॥१.१५९॥
🌸
अन्वयः--
असेवितेश्वरद्वारम् अदृष्टविरहव्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्य अपि जीवनम् ॥१.१५९॥
🌼
प्रतिपदार्थः--
(जीवनम् इत्यस्य विशेषणानि सर्वाणि पदानि) असेवितेश्वरद्वारम् ~ न सेवितं ईश्वरस्य द्वारं यस्मिन् जीवने = राजादिधनिगृहद्वारं न सेवितम् यस्मिन् जीवने; अदृष्टविरहव्यथम् ~ अदृष्टा विरहव्यथा यस्मिन् तत् तादृक् = प्रियविरहं न अनुभूतं यस्मिन् जीवने ; अनुक्तक्लीबवचनम् ~ नोक्तं क्वीबवचनं यस्मिन् जीवने = दीनवाक्यं मुखात् न निःसृतं ; जीवनम् = जीवितम् ; कस्यापि = सन्तुष्टस्य, विरक्तस्य च ; धन्यम् = सम्पन्नम् ॥१.१५९॥
🌻
तात्पर्यम्--
यः राज्ञां, धनिकानां वा गृहेषु सेवां न कृतवान्, यः कस्यचित् इष्टजनस्य अभावजनितां पीडां न अनुभूतवान्, यः कस्यचित् पुरतः गत्वा दीनभावं न व्यञ्जयति, तादृशस्य पुरुषस्य जीवनं सम्पन्नम् अस्ति॥१.१५९॥
🌿
हिन्द्यर्थः--
जिसने धनिको के द्वार की सेवा नहीं की, जिसने विरह की व्यथा नहीं सही, और जिसने कहीं अपनी दीनता प्रगट नहीं की, उसी मनुष्य का जीवन धन्य हैं ॥१.१५९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.158

🌷
मूलम्--
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥१.१५८॥

🌺
पदविभागः--
तेन अधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् । येन आशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ॥१.१५८॥
🌸
अन्वयः--
येन आशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितं, तेन अधीतम्, तेन श्रुतम्, तेन सर्वम् अनुष्ठितम् ॥१.१५८॥
🌼
प्रतिपदार्थः--
अधीतम् = अध्ययनं कृतम्, शास्त्रं पठितम् ; श्रुतम् = गुरुमुखतः आकर्णितम् ; अनुष्ठितम् = सर्वं यज्ञादिकं शुभं कर्म कृतम् ; नैराश्यं = लोभाभावः, सन्तोषः ; अवलम्बितम् = स्वस्मिन् विहितम् ॥१.१५८॥
🌻
तात्पर्यम्--
यः अतितृष्णां त्यक्त्वा मनसि सन्तुष्टिं गतवान्, स एव अधीती, बहुश्रुतः, आचारवान् च ॥१.१५८॥
🌿
हिन्द्यर्थः--
जिसने आशा को लात मार कर नैराश्य (निराशा) का ही अवलम्बन किया है, उसीने सब शास्त्रों को ठीक २ पढा है, और उसी ने शास्त्रों को ठीक२ सुना है और उसी ने सब कुछ कर्त्तव्य कार्य किया है ॥१.१५८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.157

🌷
मूलम्--
सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥१.१५७॥

🌺
पदविभागः--
सन्तोष-अमृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतः तद्धन-लुब्धानामितश्चेतश्च धावताम् ॥१.१५७॥
🌸
अन्वयः--
सन्तोषामृततृप्तानां शान्तचेतसां यत् सुखं तत् कुतः धनलुब्धानाम् इतश्च इतश्च धावताम् ?॥१.१५७॥
🌼
प्रतिपदार्थः--
सन्तोषामृततृप्तानां ~ सन्तोषः एव अमृतं, तेन तृप्तानाम् इत्यर्थः = आनन्दभावेन सन्तुष्टानाम् ; शान्तचेतसां = प्रशान्तं चित्तं येषां तेषां ; सुखं = धनलुब्धानाम् = वित्तेन आकृष्टानां ; इतश्च इतश्च धावताम् = दिशं विना धावन्ति ये तेषां॥१.१५७॥
🌻
तात्पर्यम्--
ये सन्तोषकारणात् तृप्तिभावयुक्ताः, येषां मनांसि शान्तानि भवन्ति, ते नन्दन्ति। तादृशं नन्दनं द्रविणलोलुपानां, दिशाहीनं गच्छतां न भवति ॥१.१५७॥
🌿
हिन्द्यर्थः--
सन्तोषरूपी अमृत से तृप्त एवं शान्त चित्तवालों को जो सुख है, वह सुख धन के लोभ से इधर-उधर दौड़ने वाला को कहाँ से हो सकता है? ॥१.१५७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.156

🌷
मूलम्--
सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥१.१५६॥

🌺
पदविभागः--
सर्वाः सम्पत्तयः तस्य सन्तुष्टं यस्य मानसम् । उपानद्-गूढ-पादस्य ननु चर्म-आवृता इव भूः ॥१.१५६॥
🌸
अन्वयः--
यस्य मानसं सन्तुष्टं तस्य सर्वाः सम्पत्तयः (भवन्ति) । (अत्रोदहरणम्) ननु उपानद्गूढपादस्य भूः चर्मावृता इव ॥१.१५६॥
🌼
प्रतिपदार्थः--
सम्पत्तयः = धनानि ; सन्तुष्टं = तृप्तियुतं ; मानसम् = चित्तम् ; उपानद्गूढपादस्य = पादुकाबद्धपादस्य ; चर्मावृतेव = चर्मास्तृतेव ; भूः = (कण्टकादियुतापि) धरित्री निष्कण्टकैव ॥१.१५६॥
🌻
तात्पर्यम्--
यस्य मनः सन्तृप्तं भवति, तस्य सविधे सर्वविधसम्पदाः भवन्ति। यस्य पादयोः पादरक्षे भवतः, तस्मै भूमिः चर्मणा आवृता इव निष्कण्टका भवति॥१.१५६॥
🌿
हिन्द्यर्थः--
जिसका मन सन्तुष्ट है, उसके पास सब सम्पत्ति है । जैसे जिस मनुष्य के पैर में जूता है, उसके लिये मानो सब पृथ्वी ही चर्म से अच्छा दिए है ॥१.१५६॥
🙏