Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.119

🌷
मूलम्--
अदृष्टिदानं कृतपूर्वनाशनम्
अमाननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृति-
र्विरक्तभावस्य जनस्य लक्षणम् ॥१.११९॥

🌺
पदविभागः--
अदृष्टिदानं कृतपूर्व-नाशनम् अमाननं दुश्चरित-अनुकीर्तनम् । कथा-प्रसङ्गेन च नाम-विस्मृतिः विरक्त-भावस्य जनस्य लक्षणम् ॥१.११९॥
🌸
अन्वयः--
विरक्त-भावस्य जनस्य लक्षणम्- अदृष्टिदानं, कृतपूर्व-नाशनम्, अमाननं, दुश्चरित-अनुकीर्तनम्, कथा-प्रसङ्गेन च नाम-विस्मृतिः (इति)॥१.११९॥
🌼
प्रतिपदार्थः--
अदृष्टिदानम् = अविलोकनम् ; कृतपूर्वनाशनम् = पूर्वोपकारादि-अचिन्तनम् ; अमाननम् = तिरस्कारः, सत्काराभावश्च ; दुश्चरितानुकीर्तनम् = दोषवर्णनम् ; कथाप्रसङ्गेन = कथावसरेणापि ; नामविस्मृतिः = नाम-अस्मरणम् ; विरक्तभातस्य = विरक्तस्य ; जनस्य = मनुष्यस्य ; लक्षणम् = सङ्केतः॥१.११९॥
🌻
तात्पर्यम्--
यः पूर्वानुरागी, अधुना रागरहितः विरक्तश्च सञ्जातः तस्य लक्षणानि एवं सन्ति- सः सहृदं न पश्यति । पूर्वकृतं सर्वं विस्मरति । मित्रं पराभवति । आचरितानां दोषानां वर्णनं करोति । वार्ताप्रसङ्गे नाम अपि विस्मरति ॥१.११९॥
🌿
हिन्द्यर्थः--
असन्तुष्ट होकर देखना, पूर्वकृत कार्यों (उपकारों) को भूल जाना, सत्कार न करना, दोषों को प्रकट करना, अक्सर (मौके) पर नाम तक भी भूल जाना, वे सब विरक्त मनुष्य के लक्षण है ॥१.११९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.118

🌷
मूलम्--
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म ॥१.११८॥

🌺
पदविभागः--
मुखं प्रसन्नं विमला च दृष्टिः कथानुरागः मधुरा च वाणी । स्नेहः अधिकः सम्भ्रम-दर्शनं च सदा अनुरक्तस्य जनस्य लक्ष्म ॥१.११८॥
🌸
अन्वयः--
सदा अनुरक्तस्य जनस्य लक्ष्म (इत्थं भवति)- प्रसन्नं मुखं, विमला च दृष्टिः, कथानुरागः, मधुरा च वाणी, अधिकः स्नेहः, सम्भ्रम-दर्शनं च ॥१.११८॥
🌼
प्रतिपदार्थः--
मुखं = वदनं ; प्रसन्नं = सन्तुष्टियुक्तं ; विमला = स्वच्छा, रागशून्या ; दृष्टिः = दर्शनम् ; कथानुरागः = वार्ताश्रवणादरः ; मधुरा वाणी = श्रवणानन्दकरी वाक् ; स्नेहः = सुहृद्भावः ; सम्भ्रमर्दनं = आगमने सत्कारादिषु च त्वरादर्शनम् ; सदा = नित्यं ; अनुरक्तस्य = प्रीतिभावयुक्तस्य ; लक्ष्म = लक्षणम् ॥१.११८॥
🌻
तात्पर्यम्--
यः सदा अनुरागयुक्तः भवति तस्य लक्षणानि उच्यन्ते- तद्वदनम् आनन्दितं, दृष्टिः स्वच्छा च भवति । तस्मिन् सुहृदः वार्तां श्रोतुम् उत्साहः दृश्यते । तस्य वाक् मधुरा । अधिकं सुहृद्भावं च दर्शयति । मित्रे आगते सति सानन्दाश्चर्यं दर्शयति ॥१.११८॥
🌿
हिन्द्यर्थः--
प्रसन्न मुख, विमल नेत्र, बातों में प्रेम, मधुर वाणी, अधिक स्नेह, आने पर संभ्रम से (हडबडाकर, उत्सुकतापूर्वक) देखना- ये सब अनुरक्त मनुष्यों के लक्षण हैं ॥१.११८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.117

🌷
मूलम्--
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥१.११७॥

🌺
पदविभागः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
🌸
अन्वयः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
🌼
प्रतिपदार्थः--
उत्तमस्य वर्णस्य = ब्राह्मण-क्षत्रियादेः अपि ; नीचोऽपि = शूद्रादिरपि ; गृहम् = स्वनिवासम् ; आगतः = मेलनाय समागतः ; पूजनीयः = सत्कारयोग्यः ; यतायोग्यं = यावच्छक्ति ; सर्वदेवमयः = सकलदेवस्वरूपः ; सः = अतिथिः ॥१.११७॥
🌻
तात्पर्यम्--
अग्रवर्णस्य गृहम् आयातः अनत्यवर्णस्थोऽपि यावच्छक्ति पूज्यः एव। (तिरस्कारः न कार्यः। सत्कारः एव कार्यः) यतो हि गृहमायातः यः कोपि भवतु स देवस्वरूपः भवति (अनेन वर्णव्यवस्था काचित् वृत्तिकार्यालयव्यवस्था इव आसीदिति ज्ञायते) ॥१.११७॥
🌿
हिन्द्यर्थः--
और उत्तम वर्ण (ब्राह्मण आदि) के घर पर यदि अपने से नीच (क्षत्रिय वैश्य या शूद्र आदि) भी कोई आवे तो भी उसकी भी यथायोग्य पूजा करनी चाहिए, क्यों कि अतिथि में सब देवताओं का निवास रहता है ॥१.११७ ॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.116

🌷
मूलम्--
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥१.११६॥

🌺
पदविभागः--
गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
🌸
अन्वयः--
गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
🌼
प्रतिपदार्थः--
द्विजातीनां = ब्राह्मणादीनां त्रैवर्णिकानाम् ; अग्निः = वैश्वानरः ; गुरुः पूज्यः ; वर्णानां = ब्राह्मणादीनां चतुर्णा वर्णानां ; गुरुः = श्रेष्ठः ; एकः = केवलः, नान्यः ; स्त्रीणां = पत्नीसम्बन्धेन नारीणां ; सर्वस्य = सर्वस्यापि लोकस्य ; अभ्यागतः = आह्वानेन गृहमागतः ; गुरुः = सत्कारार्हः॥१.११६॥
🌻
तात्पर्यम्--
कस्य कस्य कः कः पूज्यः इति कीर्तयति- चतुर्षु वर्षेणु प्रथमत्रयेभ्यः अग्निः आराध्यः। सर्ववर्णास्थेभ्यः ब्राह्मणः सत्क्रियार्हः। स्त्रीणां कृते पतिः एव गुरुः। समस्तलोकाय अतिथिः पूज्यः भवति॥१.११६॥
🌿
हिन्द्यर्थः--
अग्नि- द्विजाति (ब्राह्मण, क्षत्रिय, वैश्य इन तीनों) का गुरु (पूज्य) हैं । वर्णों (ब्राह्मण क्षत्रिय, वैश्य, शूद्र इन चारों को, ब्राह्मण गुरु हैं । स्त्री का पति ही गुरु है और अभ्यागत (अतिथि) सभी का गुरु है ॥१.११६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.115

🌷
मूलम्--
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥१.११५॥

🌺
पदविभागः--
बालः वा यदि वा वृद्धः युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वत्र अभ्यागतः गुरुः ॥१.११५॥
🌸
अन्वयः--
गृहम् आगतः यदि बालः वा, वृद्धः वा, युवा वा, तस्य पूजा विधातव्या। अभ्यागतः सर्वत्र गुरुः ॥१.११५॥
🌼
प्रतिपदार्थः--
गृहम् = निवासस्थानम् ; आगतः = आयातः ; यदि = चेत् ; बालः = अल्वयस्कः ; वृद्धः = अधिकायुः ; युवा = युवकः ; पूजा = स्वागतसत्कारपूर्वक-वस्तुप्रदानादिभिः युक्तः समुचितव्यवहारः ; विधातव्या = कर्तव्या ; अभ्यागतः = विशेषेण गृहमागतः ; सर्वत्र = यत्र क्वचिदपि ; गुरुः = पूज्यः, सद्व्यवहारार्हः ॥१.११५॥
🌻
तात्पर्यम्--
गेहमागतः यः कोपि भवतु सः सत्कारार्हः एव। तस्य आदरः एव विहितव्यः। यतो हि सः सर्वेषां गौरवयोग्यो भवति॥१.११५॥
🌿
हिन्द्यर्थः--
बालक, या वृद्ध, या जवान कोई भी हो, वह यदि अपने घर पर आजाये तो उसका भोजन आदि से सत्कार और अतिथिपूजन अवश्य करना चाहिए, क्योंकि- अतिथि सबका पूज्य है ॥१.११५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.114

🌷
मूलम्--
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥१.११४॥

🌺
पदविभागः--
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यः च श्रोत्रियः सजला नदी ॥१.११४॥
🌸
अन्वयः--
मित्र ! यत्र चतुष्टयं नास्ति तत्र न वस्तव्यम् - ऋणदाता च वैद्यः च श्रोत्रियः सजला नदी ॥१.११४॥
🌼
प्रतिपदार्थः--
मित्र = हे सुहृत् ; न वस्तव्यं = निवासः न कार्यः ; चतुष्टयम् = चत्वारः ; ऋणदाता = यः धनं ददाति उपयोगाय, पुनः प्रत्यर्पणाय ; वैद्यः = चिकित्सकः ; श्रोत्रियः = वेदपारगः ब्राह्मणः, सजला नदी = जलपूर्णा नदी ॥१.११४॥
🌻
तात्पर्यम्--
हे सुहृत्, यत्र एते चत्वारः न भवन्ति, तत्र वासः न कार्यः- ऋणं ददाति यः, रोगनिवारकः, वेदज्ञः, जलयुक्ता नदी च ॥१.११४॥
🌿
हिन्द्यर्थः--
हे मित्र- जहाँ ऋणदाता धनी, वैद्य, श्रोत्रिय (वैदिक विद्वान्) और जल से पूर्ण नदी, ये चार चीज़े नहीं हों, वहाँ कभी नहीं रहना चाहिए ॥१.११४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.113

🌷
मूलम्--
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥

🌺
पदविभागः--
लोकयात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥
🌸
अन्वयः--
लोकयात्रा, भयं, लज्जा, दाक्षिण्यं, त्याग-शीलता (च इति) पञ्च यत्र न विद्यन्ते तत्र संस्थितिं न कुर्यात् ॥१.११३॥
🌼
प्रतिपदार्थः--
लोकयात्रा = जीवनोपायः ; भयं = राज-लोक-धर्म-भयम् ; लज्जा = लोके पापमाचरामः तेन जनाः निन्देयुः इति भीतिपूर्वका व्रीडा ; दाक्षिण्यं = अनुकूलता ; त्यागशीलता = निःस्वार्थबुद्धिः ; संस्थितिं = वासम् ॥१.११३॥
🌻
तात्पर्यम्--
यस्मिन् प्रदेशे एते पञ्च न वर्तन्ते, तत्र निवासः न कार्यः- जीविकायाः मार्गः, असाध्वाचरणेन भीतिः, लोकतः ह्री, कार्यानुकूलता, स्वार्थराहित्यं च ॥१.११३॥
🌿
हिन्द्यर्थः--
और जिस देश में जीविका का साधन, लोकभय, लोकलज्जा, सरलता, त्याग, (उदारता) ये पाँच बातें न हों, वहाँ कभी नहीं रहना चाहिए ॥१.११३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.112

🌷
मूलम्--
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥

🌺
पदविभागः--
धनिकः श्रोत्रियः राजा नदी वैद्यः तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
🌸
अन्वयः--
धनिकः, श्रोत्रियः, राजा, नदी, पञ्चमः तु वैद्यः – (एते) पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
🌼
प्रतिपदार्थः--
धनिकः = ऋणादिदाता श्रेष्ठी ; श्रोत्रियः = वेदपारगः ; राजा = परिपालकः ; नदी = नीरस्थानं, जलाशयः वा ; वैद्यः = चिकित्सकः ; पञ्च = एते पञ्च ; वासं = संस्थितिम् ॥१.११२॥
🌻
तात्पर्यम्--
यस्मिन् प्रदेशविशेषे एते उच्यमानाः पञ्च न वर्तन्ते, तस्मिन् देशे केनापि निवासः न कार्यः । ते पञ्च सन्ति- धनवान्, पुरोहितः, पालयिता, नदी सरः वा, रोगहारकश्च ॥१.११२॥
🌿
हिन्द्यर्थः--
धनी (सेठ-बोहरा), श्रोत्रिय, (वेदपाठी), राजा, नदी और वैद्य, ये पाँच जहाँ नहीं हो, वहाँ मनुष्य को एक दिन भी नहीं रहना चाहिये ॥१.११२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.111

🌷
मूलम्--
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥

🌺
पदविभागः--
यस्मिन् देशे न सम्मानः न वृत्तिः न च बान्धवः । न च विद्या-आगमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥
🌸
अन्वयः--
यस्मिन् देशे सम्मानः न, वृत्तिः न, बान्धवः च न, विद्या-आगमः च न कश्चित् (वर्तेत), तं देशं परिवर्जयेत् ॥१.१११॥
🌼
प्रतिपदार्थः--
सम्मानः = सत्कारः ; वृत्तिः = जीविका ; बान्धवाः = ज्ञातिनः, परिचिताः, मित्राणि वा ; विद्यागमः = विद्यालाभः ; परिवर्जयेत् = विमुञ्चेत् ॥१.१११॥
🌻
तात्पर्यम्--
यत्र स्वस्मै आदरभावः न वर्तते, वित्ताय कार्यनियोगः नास्ति, बन्धुजनाः न सन्ति, ज्ञानलाभः न विद्येत तस्मिन् प्रदेशविशेषे कदापि न वस्तव्यम्। त्यक्त्वा गन्तव्यम् ॥१.१११॥
🌿
हिन्द्यर्थः--
जिस देश में सम्मान न हो, कोई जीविका न हो, कोई मित्र न हो, और न किसी प्रकार की विद्या की प्राप्ति ही हो, उस देश को छोड़ देना चाहिये, उसमें कभी नहीं रहना चाहिये ॥१.१११॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.110

🌷
मूलम्--
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥

🌺
पदविभागः--
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥
🌸
अन्वयः--
परोपदेशे पाण्डित्यं सर्वेषां नृणां सुकरम् । धर्मे स्वीयम् अनुष्ठानं तु कस्यचित् महात्मनः ॥१.११०॥
🌼
प्रतिपदार्थः--
परोपदेशे = परशिक्षणे ; पाण्डित्यं = नैपुण्यं, विद्वत्त्वम् ; सर्वेषां नृणां = समेषां मनुष्याणां ; सुकरम् = सुलभम् ; धर्मे = कर्तव्यपालने ; स्वीयं = स्वकीयम् ; अनुष्ठानं = आचरणम् ; महात्मनः = महापुरुषस्य ॥१.११०॥
🌻
तात्पर्यम्--
अन्येषाम् उपबोधने सामान्याः सर्वे कुशलिनः । किन्तु स्वयमेव आचरणीयस्य अनुपालनं केचन उत्तमाः एव कर्तुं पारयन्ति॥१.११०॥
🌿
हिन्द्यर्थः--
क्यों कि- धर्म के विषय में दूसरे को उपदेश देने के लिये पण्डिताई दिख-लाना तो सभी के लिए सहज है, परन्तु धर्म का स्वयं आचरण तो बिरले ही महात्मा लोग किया करते हैं ॥१.११०॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.109

🌷
मूलम्--
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥१.१०९॥

🌺
पदविभागः--
मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– चलति एकेन पादेन तिष्ठति एकेन बुद्धिमान् । न असमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥१.१०९॥ 

🌸
अन्वयः--
मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– बुद्धिमान् एकेन पादेन चलति एकेन तिष्ठति । परं स्थानं असमीक्ष्य पूर्वम् आयतनं न त्यजेत् ॥१.१०९॥
🌼
प्रतिपदार्थः--
बुद्धिमान् = विवेकी ; एकेन पादेन चलति = किञ्चित् अग्रे सरति ; एकेन तिष्ठति = किञ्चित् तत्रैव स्थित्वा ईक्षते ; परं = वर्तमानात् अन्यत् ; स्थानं = प्रदेशं ; असमीक्ष्य = सम्यक् अदृष्ट्वा ; पूर्वम् = वर्तमाने स्थितं ; आयतनं = स्थानम् न त्यजेत् = न मुञ्चेत् ॥१.१०९॥
🌻
तात्पर्यम्--
मतिमान् मनुष्यः सः पदमेकमग्रे न्यस्यति, पुनः अन्यत् पदं न सारयति, तत्रैव तिष्ठति। अस्य स्थानस्य त्यागात् पूर्वं यत्र गन्तव्यं तत्र समीचीनत्वं परीक्षितव्यम्। अपरीक्ष्य अधुना यदस्ति तत् विमुच्य न यातव्यम्। (विवेकशीलः अविलोक्य अविचार्य वा कार्यं न करोतीति भावः) ॥१.१०९॥
🌿
हिन्द्यर्थः--
बुद्धिमान् मनुष्य वही है, जो एक पैर से चलता है, अर्थात् एक पैर वह आगे रखता है, और एक पैर पूर्व स्थान पर ही रखे (जमाए) रहता है । इसलिए दूसरे स्थान को पहिले से निर्धारित किये बिना ही पहले स्थान को नहीं छोड़ना चाहिये॥१.१०९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.108

🌷
मूलम्--
को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥१.१०८॥

🌺
पदविभागः--
कः वीरस्य मनस्विनः स्वविषयः कः वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहु-प्रताप-अर्जितम् । यद् दंष्ट्रा-नख-लाङ्गुल-प्रहरणः सिंहः वनं गाहते तस्मिन् एव हत-द्विपेन्द्र-रुधिरैः तृष्णां छिनत्ति आत्मनः ॥१.१०८॥
🌸
अन्वयः--
मनस्विनः वीरस्य कः स्वविषयः, कः वा विदेशः स्मृतः? (सः) यं देशं श्रयते तम् एव बाहुप्रतापार्जितं कुरुते । यद् दंष्ट्रानख-लाङ्गुलप्रहरणः सिंहः वनं गाहते, तस्मिन् एव (वने) हतद्विपेन्द्ररुधिरैः आत्मनः तृष्णां छिनत्ति ॥१.१०८॥
🌼
प्रतिपदार्थः--
वीरस्य = शूरस्य ; मनस्विनः = धीरस्य, गम्भीराशयस्य ; स्वविषयः = (अत्र) स्वदेशः ; विदेशः = स्वदेशात् भिन्नः प्रदेशः ; स्मृतः = भावितः ; श्रयते = आश्रयते ; बाहुप्रतापार्जितम् ~ बाह्वोः-प्रतापेन अर्जितम् = भुजयोः बलेन स्वाधीनं कृतम् ; दंष्ट्रानखलाङ्गुलप्रहरणः ~ दंष्ट्राः नखाः पुच्छं च आयुधाः यस्य ; सिंहः = केसरी ; वनं = अरण्यं ; गाहते = प्रविशति ; तस्मिन्नेव = (अत्र) वने ; हतद्विपेन्द्ररुधिरैः ~ हतः द्विपेन्द्रः, तस्य रुधिराणि, तैः = व्यापादितः गजेन्द्रः तस्य रक्तैः, आत्मनः = स्वीयं ; तृष्णां = पिपासाम् अथवा बुभुक्षाम् ; छिनत्ति = अपनयति ॥१.१०८॥
🌻
तात्पर्यम्--
धैर्यशालिनः विक्रान्तस्य चिन्तने स्वदेशः कः, विदेशः कः? (कोपि भेदो न। सः सर्वत्र एकथैव तिष्ठति) यत्रापि (गच्छेत्) निवसेत्, तत्र स्वभुदोर्बलेन स्वायत्तं करोति। (अत्र उदाहरणम्) यथा सिंहः दशनरूपैः नखरूपैः, पुच्छरूपेण च आयुधैः युक्तः इव कानने निवसति, तत्रैव गजान् हत्वा तेषां शोणितेन स्वस्य बुभुक्षादिकं निवारयति। (अस्यार्थः- सिंहः स्वस्य वनं वा अपरं वनं वेति न चिन्तयति। यत्र निवासाय याति तत्रैव स्वस्याहारम् अन्विष्यति, तेन जीवति च।) ॥१.१०८॥
🌿
हिन्द्यर्थः--
और भी-वीर एवं मनस्वी पुरुष के लिये कौन अपना देश है कौन-कौन विदेश है? वह तो जिस देश में जाता है, उसी को अपने बाहुबल से अपना कर लेता है । जैसे (दाँत, नख, और पूंछ ही आयुध जिसके हैं, ऐसा वीर) सिंह जिस वन में जाता है, उसी वन में हाथियों को मारकर, उनके रुधिर से हो अपनी प्यास बुझाता है॥१.१०८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.107

🌷
मूलम्--
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥

🌺
पदविभागः--
स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्र एव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥
🌸
अन्वयः--
सिंहाः सत्पुरुषा गजाः (च) स्थानम् उत्सृज्य गच्छन्ति । काकाः कापुरुषा मृगाः (च) तत्र एव निधनं यान्ति ॥१.१०७॥
🌼
प्रतिपदार्थः--
सिंहाः = वनराजाः ; सत्पुरुषाः = सज्जनाः ; गजाः = करिणः ; स्थानं = निवासयोग्यं स्वस्थानम् ;  उत्सृज्य = विहाय ; काकाः = वायसाः ; कापुरुषाः = भीरवः ; मृगाः = हरिणाः ; तत्रैव = निवास-अयोग्ये अपि स्थाने ; निधनं यान्ति = मृत्युं प्राप्नुवन्ति ॥१.१०७ ॥
🌻
तात्पर्यम्--
(यदा निवासाय अयोग्यं भवति, तदा) प्रकृतं निवासस्थानमपि केचन तत् त्यक्त्वा गच्छन्ति- यथा दन्तिनः, केसरिणः, सन्तः च। (यदा स्वस्य वासस्थानं वस्तुं  न योग्यं, तदापि केचन तत् परित्यज्य न निर्गच्छन्ति, तत्कारणात्) स्वस्थाने मरणमपि प्राप्नुवन्ति- यथा काकाः, धर्यहीनाः, कुरङ्गाः च  ॥१.१०७॥
🌿
हिन्द्यर्थः--
क्यों कि क्यों कि सिंह, सत्पुरुष और हाथी ये तीनों तो अपना अपना स्थान छोडकर जहाँ चाहते हैं, वहीं (अच्छे स्थान में) चले जाते हैं । परन्तु कौवा, कायर मनुष्य और मृग, ये तीनों तो अपने स्थान पर ही पड़े-पड़े मर जाते हैं ॥१.१०७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.106

🌷
मूलम्--
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥

🌺
पदविभागः--
स्थानभ्रष्टाः न शोभन्ते दन्ताः केशाः नखाः नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
🌸
अन्वयः--
दन्ताः केशाः नखाः नराः (च) स्थानभ्रष्टाः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
🌼
प्रतिपदार्थः--
दन्ताः = दशनाः ; केशाः = मूर्धजाः ; नखाः = अङ्गुल्यन्ताः ; नराः = मनुष्याः ; स्थानभ्रष्टाः = स्वस्थानात् चलिताः ; न शोभन्ते = शोभां, श्रियं च न लभन्ते ; इति विज्ञाय = एवं ज्ञात्वा ; मतिमान् = बुद्धिमान् ; स्वस्थानं = वर्तमानां स्वकीयां स्थितिं ; न परित्यजेत् = न मुञ्चेत् ॥१.१०६॥
🌻
तात्पर्यम्--
रदाः, शिरोजाः, नखाः, मानवाः च स्वस्मात् स्थिरस्थानात् विचलिताः न शोभन्ते इति ज्ञात्वा विवेकी कदाचित् स्वस्थानं न मुञ्चेत् ॥१.१०६॥
🌿
हिन्द्यर्थः--
दाँत, केश, नख, मनुष्य, ये चारों स्थानभ्रष्ट होने पर शोभते नहीं हैं । ऐसा विचारकर बुद्धिमान् मनुष्य को अपना स्थान कभी नहीं छोडना चाहिये॥१.१०६॥
🙏


हितोपदेश-सुभाषित-श्लोकाः - 1.105

🌷

मूलम्--
मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् ।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥१.१०५॥

🌺
पदविभागः--
मनसि अन्यद् वचसि अन्यत् कर्मणि अन्यद् दुरात्मनाम् । मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ॥१.१०५॥
🌸
अन्वयः--
दुरात्मनां मनसि अन्यद्, वचसि अन्यत्, कर्मणि अन्यद् (भवति) । महात्मनां मनसि एकं वचसि एकं कर्मणि एकम् (भवति)॥१.१०५॥
🌼
प्रतिपदार्थः--
मनसि = चित्ते ; वचसि = वचने ; कर्मणि = कार्याचरणे ; अन्यत् = यद् दृश्यते तस्मात् भिन्नम् ; दुरात्मनां = पापिनाम् ; महात्मनाम् = सत्पुरुषानाम् ॥१.१०५॥
🌻
तात्पर्यम्--
दुष्टानां मनसि अन्यद् भवति। ते हि अन्यया भाषन्ते । क्रियायाम् अन्यदेव आचरन्ति । महात्मनां तु यदेव मनसि, तदेव तेषां वचसि, तेषां क्रियायां च इत्यर्थः ॥१.१०५॥
🌿
हिन्द्यर्थः--
और दुर्जन लोग सोचते कुछ और है, कहते कुछ और है, करते कुछ और है । परन्तु सज्जन लोगों के मन में जो है वहीं वे कहते हैं और वही वे करते भी हैं ॥१.१०५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.104

🌷
मूलम्--
अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः ।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥१.१०४॥

🌺
पदविभागः--
अन्यथा एव हि सौहार्दं भवेत् स्वच्छ-अन्तरात्मनः । प्रवर्तते अन्यथा वाणी शाठ्य-उपहत-चेतसः ॥१.१०४॥
🌸
अन्वयः--
स्वच्छ-अन्तरात्मनः सौहार्दम् अन्यथा एव हि भवेत् । शाठ्योपहतचेतसः वाणी अन्यथा प्रवर्तते ॥१.१०४॥
🌼
प्रतिपदार्थः--
स्वच्छान्तरात्मनः = शुद्धचेतसः ; अन्यथैव = अन्यप्रकारेण एव ; सौहार्दं = मैत्री ; शाठ्योपहतचेतसः = क्रौर्य-निष्ठुर-चेतसः, शठस्य ; अन्यथैव = अन्यादृशी एव कपटपूर्णा ; वाणी = वाक् ; प्रवर्त्तते = प्रसरति ॥१.१०४॥
🌻
तात्पर्यम्--
स्वच्छमनसः सौमनस्यं एकविधं (समं, सद्भावपूर्णं च) भवति। दुष्टमनस्कस्य भाषा अन्यथा (कठिना, परुषा च) भवति ॥१.१०४॥
🌿
हिन्द्यर्थः--
शुद्धहृदय वाले सज्जन की सहृदयता तो कुछ और ही प्रकार की होती है और कुटिल हृदय धूर्त की बोलचाल कुछ और ही तरह की दोती है। अर्थात् सज्जन और दुर्जन का भेद तो बातों से ही मालूम हो जाता है ॥१.१०४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.103

 🌷
मूलम्--
पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते ।
अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥१.१०३॥

🌺
पदविभागः--
पटुत्वं सत्य-वादित्वं कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
🌸
अन्वयः--
पटुत्वं सत्य-वादित्वं (च) कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
🌼
प्रतिपदार्थः--
पटुत्वं = कुशलत्वम् ; सत्यवादित्वम् = सदा सत्यं वचनं ; कथायोगैन = प्रसङ्गेन ; बुध्यते = सर्वैर्ज्ञातुं शक्यते, मया च ज्ञायते ; अस्तब्धत्वम् = अजडत्वम्, अभीतत्वम् ; अचापल्यं = स्थिरत्वम् ; प्रत्यक्षेण = सावाद्दर्शनेन ; साक्षात् = त्वन्मुखदर्शनादेव च मया ज्ञायते इति भावः ॥१.१०३॥
🌻
तात्पर्यम्--
मनुष्यः समर्थः, सत्यवादी वा अस्ति, न वेति प्रसङ्गात् ज्ञायते। (तदर्थं सन्दर्भादिकस्य आवश्यकता वर्तते।) किन्तु सः जडः नास्ति, चपलः नास्तीति प्रत्यक्षमेव ज्ञायते॥१.१०३॥
🌿
हिन्द्यर्थः--
मनुष्य की चतुराई और सचाई तो बात चीत करने से मालूम होती है, पर मनुष्य की नमता और गम्भीरता ता उसे देखने से ही मालूम हो जाती है ॥१.१०३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.102

🌷
मूलम्--
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता ।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥१.१०२॥

🌺
पदविभागः--
रहस्यभेदः याच्ञा च नैष्ठुर्यं चलचित्तता । क्रोधः निःसत्यता द्यूतम् एतत् मित्रस्य दूषणम् ॥१.१०२॥
🌸
अन्वयः--
रहस्यभेदः, याच्ञा च, नैष्ठुर्यं, चलचित्तता, क्रोधः, निःसत्यता, द्यूतम् - एतत् मित्रस्य दूषणम् ॥१.१०२॥
🌼
प्रतिपदार्थः--
रहस्यभेदः = मित्रस्य अन्तरङ्गविषयाणां बहिः वचनम् ; याच्ञा = द्रव्यादिप्रार्थना ; नैष्टुर्यं = कोठरव्यवहारः; चलचित्तता = अस्थिरत्वम् ; निःसत्यता = मिथ्याभाषित्वम् ; द्यूतम् = अक्षक्रीडा ; मित्रस्य = सुहृदः ; दूषणम् = दोषः, ॥१.१०२॥
🌻
तात्पर्यम्--
मित्रीभङ्गकारिणः, मित्रे अवगुणाः केचन अत्र उच्यन्ते- १. मित्रस्य रहस्यानाम् उद्घाटनम्, २. वस्तुभ्यः, धनार्थं वा याचनम्, ३. परुषवचांसि, व्यवहारश्च ४. मनसः चाञ्चल्यम्, ५. असत्यभाषणम्, ६. द्यूतम् ॥१.१०२॥
🌿
हिन्द्यर्थः--
गुप्त बातों को प्रगट कर देना, माँगना, निष्ठुरता, चित्त की अस्थिरता, क्रोध, झूठ बोलना, जुआ खेलना ये सब मित्र के दोष हैं ॥१.१०२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.101

🌷
मूलम्--
घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् ।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च परिष्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥१.१०१॥

🌺
पदविभागः--
घर्म-आर्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अपि अर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायः यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्र-उपमम् ॥१.१०१॥
🌸
अन्वयः--
सुशीतलजलैः स्नानं न, मुक्तावली न, प्रत्यङ्गम् अर्पितम् श्रीखण्ड-विलेपनम् अपि घर्मार्तं न तथा सुखयति यथा प्रायः सद्युक्त्या परिष्कृतं, सुकृतिनाम् आकृष्टि-मन्त्र-उपमं च सज्जन-भाषितं चेतसः प्रीत्यै प्रभवति ॥१.१०१॥
🌼
प्रतिपदार्थः--
घर्मार्तं = निदाघसन्तप्तं पुमांसं; सुशीतलजैः = शीतनीरैः ; स्नानं = शरीरस्य जलेन शुद्धीकरणं ;  मुक्तावली = मुक्तानां माला ;  प्रत्यङ्गं = प्रत्यवयवम् ; अर्पितं = दत्तं, लेपितं ; श्रीखण्डविलेपनम् = चन्दनस्य लेपनं ; सुखयति = प्रसन्नकरं भवति ; चेतसः = मनसः ; प्रीत्यै = आनन्दाय ; सद्युक्या = शोभनयुक्त्या, कल्पोक्तविधिविधानेन च ; परिष्कृतं = शोभितम् ; आकृष्टिमन्त्रोपमम् = आकर्षणमन्त्रतुल्यम् ; सज्जनभाषितं =सत्पुरुषाणां वचांसि ; प्रभवति = शक्तो भवति ॥१.१०१॥
🌻
तात्पर्यम्--
निदाघतप्तं पुरुषं हिमजलैः स्नानं तथा न हर्षयति। मुक्तानां हारं धृत्वा वा, श्रीचन्दनं सर्वेषु अवयवेषु विलेप्य वा सः तादृशं सुखं नानुभवति। सुष्ठु युक्तिभिः अलङ्कृतं, आकर्षणमन्त्रसदृशं सत्पुरुषवचनं श्रुत्वा मनसः अतिशयेन सन्तोषः भवति॥१.१०१॥
🌿
हिन्द्यर्थः--
आकर्षण मन्त्र की तरह मन को खींचने वाली, अच्छी २ युक्तियों से युक्त सज्जनों की वाणी चित्त को जितना आनन्द देती है, उतना सुख घाम से सन्तप्त मनुष्यों को- शीतल जल का स्नान, मोती की माला और शरीर में लगा शुभा चन्दन भी नहीं देता है ॥१.१०१॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.100

🌷
मूलम्--
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः ।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥१.१००॥

🌺
पदविभागः--
शुचित्वं त्यागिता शौर्यं सामान्यं सुख-दुःखयोः । दाक्षिण्यं च अनुरक्तिः च सत्यता च सुहृद्गुणाः ॥१.१००॥
🌸
अन्वयः--
शुचित्वं, त्यागिता, शौर्यं, सुख-दुःखयोः सामान्यं, दाक्षिण्यम्, अनुरक्तिः, सत्यता च – (एते) सुहृद्गुणाः (सन्ति) ॥१.१००॥
🌼
प्रतिपदार्थः--
शुचित्वं= स्वच्छता ; त्यागिता = औदार्यम् ; शौर्यं = वीरता ; सुखदुःखयोः = सुखे, दुःखे च ; सामान्यं = समता ; दाक्षिण्यं = कुशलता ; अनुरक्तिः = अनुरागभावः ; सत्यता = सत्यवाक्॥१.१००॥
🌻
तात्पर्यम्--
स्वच्छत्वं, उदारत्वं, शूरत्वं, सन्तोषपीडयोः समत्वं, सामर्थ्यम्, अनुरागः, सत्यत्वं – एतानि सर्वाणि मित्रस्य लक्षणानि॥१.१००॥
🌿
हिन्द्यर्थः--
चित्त शुद्धि, त्याग, वीरता, सुख और दुःख में एक सा भाव, उदारता, प्रेम, सत्य- ये सब मित्र के गुण हैं ॥१.१००॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.99

🌷
मूलम्--
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् ।
भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः ॥१.९९॥

🌺
पदविभागः--
स्नेहच्छेदे अपि साधूनां गुणा न आयान्ति विक्रियाम् । भङ्गे अपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥१.९९॥
🌸
अन्वयः--
साधूनां गुणाः स्नेहच्छेदे अपि विक्रियाम् न आयान्ति । मृणालानां भङ्गे अपि तन्तवः अनुबध्नन्ति हि॥१.९९॥
🌼
प्रतिपदार्थः--
स्नेहच्छेदे = प्रणयभङ्गे ; साधूनां = सज्जनानां ; गुणाः = सरलत्वादयः सद्गुणाः ; विक्रियां = विकारम् ; भङ्गेऽपि = छेदेऽपि ; मृणालानाम् = कमलदण्डानाम् ; तन्तवः = बिससूत्राणि, बिसतन्तवः ; अनुबध्नन्ति = सम्बन्धं न परिहरन्ति ॥१.९९॥
🌻
तात्पर्यम्--
सत्पुरुषानां मध्ये यदा स्नेहच्छेदः भवति, तदापि तेषां सल्लक्षणानि दूषितानि न भवन्ति। (अत्रोदाहरणम्) कमलनालानि यदा विच्छिद्यन्ते तदापि तेषाम् अन्तःस्थितानि तनूनि सूत्राणि परस्परं बद्धानि एव भवन्ति, बन्धं न त्यजन्ति॥१.९९॥
🌿
हिन्द्यर्थः--
और सज्जनों के साथ प्रीति टूट जाने पर भी उनका चित्त विकृत नहीं होता है, किन्तु उनका साधारण सम्बन्ध बना ही रहता है। जैसे मृणालों (कमल की डण्डी) के बीच में से टूट जाने पर भी उनके तन्तु परस्पर में जुड़े ही रहते हैं ॥१.९९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.98


 🌷
मूलम्--
नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥१.९८॥

🌺
पदविभागः--
नारिकेल-समाकाराः दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिका-आकाराः बहिः एव मनोहराः ॥१.९८॥
🌸
अन्वयः--
सुहृज्जनाः नारिकेलसमाकाराः दृश्यन्ते हि । अन्ये बदरिकाकाराः बहिः एव मनोहराः ॥१.९८॥
🌼
प्रतिपदार्थः--
नारिकेलसमाकाराः = नारिकेलफलवद्वहिः कठिनाः, अन्तः मृदवः च; दृश्यन्ते = भान्ति ; सुहृज्जनाः = सज्जनाः, सन्तः; अन्ये = सज्जनेतराः, खलाः; बदरिकाकाराः = बदरीफलमिव बाह्ये कोमलाः अभ्यन्तरे कठिनाः च, दुःखदाः; ॥१.९८॥
🌻
तात्पर्यम्--
नारिकेलफलसदृशाः सुहृदयाः जनाः बाह्यदर्शनाय कठिनाः भवन्ति, परन्तु यथा नारिकेलस्यान्तः जलं वर्तते, तथैव ऐते अन्तः मृदवः भवन्ति। दुष्टजनाः पुनः बदरीफलसन्निभाः भवन्ति- बहिः दर्शनाय सरलाः मृदवश्च। किन्तु अन्तः सर्वं कठोरबीजमेव भवति। ॥१.९८॥
🌿
हिन्द्यर्थः--
सज्जन लोग नारियल के फल के समान ऊपर से ही रूखे व कड़े देख पड़ते हैं, परन्तु भीतर उनके मधुरता ही होती है । अर्थात् बाहर से तो वे कठोर मालूम पड़ते हैं, परन्तु भीतर से बड़े ही दयालु होते हैं । पर दूसरे लोग (अर्थात् दुर्जन लोग) बैर के फल की तरह बाहर से ही सुन्दर देख पड़ते हैं, परन्तु भीतर उनके कठोरता (कड़ी गुठली) ही रहती है ॥१.९८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.97

🌷
मूलम्--
द्रवत्वात् सर्वलोहानां निमित्तान्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥

🌺
पदविभागः--
द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयात् लोभात् च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥
🌸
अन्वयः--
सर्व-लोहानां द्रवत्वात्, मृग-पक्षिणां निमित्ताद्, मूर्खाणां भयात् लोभात् च, सतां सङ्गतं दर्शनात् (भवति)॥१.९७॥
🌼
प्रतिपदार्थः--
सर्वलौहानां = सकलधातूनां ; द्रवत्वात् = द्रवभावेन ; मृगपक्षिणां = पशूनां खगानां च ; निमित्तात् = भोजनादिदानात्, कार्यकारण-भावाच्च ; मूर्खाणां = मूढानां ; भयात् = भीतेः ; लोभात् = लौल्यात् ; सतां = सज्जनानां ; दर्शनाद् = प्रेक्षणमात्राद् एव ; सङ्गतं = मैत्री ॥१.९७॥
🌻
तात्पर्यम्--
समस्तधातुपदार्थानां विगलनमार्गेण संयुक्तता भवति। पशूनां पक्षिणां च मैत्री केनचिद् हेतुना कल्प्यते। बुद्धिहीनानां साङ्गत्यं भीतेः लोलुपतायाः च कारणात् घटते। सज्जनानां मित्रत्वं केवलं दर्शनमात्रेण जागर्ति॥१.९७॥
🌿
हिन्द्यर्थः--
सब धातुओंका परस्पर मेल गलाने से ही होता है, पशुपक्षियों का मेल किसी निमित्त (कारण) से ही होता है, मूर्खों का मेल भय और लोभ से ही होता है, परन्तु सज्जनों का मेल (मैत्री) तो केवल दर्शनमात्र से ही हो जाता है ॥१.९७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.96

🌷
मूलम्--
मृद्घटवत् सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद् दुर्भेद्यश्चाशु सन्धेयः ॥१.९६॥

🌺
पदविभागः--
मृद्घट-वत् सुखभेद्यः दुःसन्धानः च दुर्जनः भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
🌸
अन्वयः--
दुर्जनः च मृद्घटवत् सुखभेद्यः दुःसन्धानः च भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
🌼
प्रतिपदार्थः--
मृद्धटवत् = मृत्तिकया निर्मतकुम्भः इव ; सुखभेद्यः = सुकरं भेत्तुं शक्यः ; दुःसन्धानः = पुनर्योजितुम् अशक्यः ;  कनकघटवत् = सुवर्णादिकुम्भवत् ; दुर्भेद्यः = भेत्तुम् असुकरः ; आशु = अनायासेन ; सन्धेयः = योज्यः ॥१.९६॥
🌻
तात्पर्यम्--
(अयं श्लोकः दुर्जनसज्जनयोः मध्ये भेदं ज्ञापयति) दुर्जनः मृत्तिकाभाण्डः इव अनायासेन भग्नः भवति, नाम क्रोधादिविकारान् प्राप्नोति भवति; पुनः योजितुं कदापि शक्यः न भवति, नाम शान्तः न भवति। किन्तु सज्जनः स्वर्णकलशसदृशः विभक्तुम् अशक्यः, नाम अविकृतः भवति; पुनश्च यदि किञ्चित् भग्नः, तदा विनायासं योजितुं शक्यः, नाम झटिति स्वस्थितिं प्राप्नोति॥१.९६॥
🌿
हिन्द्यर्थः--
दुर्जन प्राणी मिट्टी के घड़े की तरह अनायास ही विकृत हो (फूट-फूट) जाते हैं और उनका पुनः मेल (जोड़ना) कठिनता से होता है । परन्तु सज्जन लोग सुवण के घट की तरह जल्दी बिगड़ते (टूटते) नहीं है, और यदि बिगड़ते भी है, तो शीघ्र ही पुनः ठीक किए (जोड़े) जा सकते हैं ॥१.९६॥
🙏


हितोपदेश-सुभाषित-श्लोकाः - 1.95

🌷
मूलम्--
महताप्यर्थसारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥१.९५॥

🌺
पदविभागः--
महता अपि अर्थसारेण यः विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥१.९५॥
🌸
अन्वयः--
यः महता अपि अर्थसारेण शत्रुषु विश्वसिति, विरक्तासु भार्यासु च तस्य जीवनं तदन्तम् ॥१.९५॥
🌼
प्रतिपदार्थः--
महता अपि = विपुलेन अपि ; अर्थसारेण = धनादिबलेन समन्वितोऽपीति शेपः ;  यद्वा अर्थसिद्ध्यादिकारणवशेन; यः = यो जनः ; च = पुनः ; विरक्तासु = अननुरक्तासु, परपुरुषरतासु च विश्वसितीति शेपः ; तदन्तं = तद्विश्वासपर्यन्तमेव ; जीवितं = जीवनम् ; केचित्तु- महता अपि अर्थसारेण इत्यस्य गुरुणापि प्रयोजनेन इत्यर्थम् आहुः ॥१.९५॥
🌻
तात्पर्यम्--
यः पुरुषः बृहतः प्रयोजनस्य कारणेनापि अरिषु आश्वासनं करोति, परस्त्रीषु अनुरक्तेः कारणेन आश्वस्तः वा भवति, तस्य जीवनं तावत् पर्यन्तमेव चलति, यावत् सः आश्वासभावः तिष्ठति। विश्वासभावः यदा समाप्तिमेति तदा तस्य जीवनम् अन्तं याति॥१.९५॥
🌿
हिन्द्यर्थः--
जो पुरुष विशेष लाभवश भी शत्रुओंका, या विरक्त स्त्री (पर-पुरुषानुरागवती) का विश्वास करता है, उस पुरुष के जीवन का अन्त ही समझना चाहिये ॥१.९५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.94

🌷
मूलम्--
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।
नोदके शकटं याति न च नौर्गच्छति स्थले ॥१.९४॥
🌺
पदविभागः--
यद् अशक्यं न तत् शक्यं यत् शक्यं शक्यम् एव तत् । न उदके शकटं याति न च नौः गच्छति स्थले ॥१.९४॥
🌸
अन्वयः--
यद् अशक्यं तत् न शक्यम् । यत् शक्यं तत् शक्यम् एव । उदके शकटं न याति । नौः च स्थले न गच्छति ॥१.९४॥
🌼
प्रतिपदार्थः--
यत् = यत्कार्यम् ; अशक्यम् = यत् कर्तुम् वयं न समर्थाः ; यत् च शक्यं = यत् कर्तुं वयं प्रभवामः ; तत् शक्यमेव = सम्भवत्येव ; स्वयमेव = अनायासेन एव भवति ; उदके = जले ; शकटं = गन्त्री  (गाडी) ; स्थले = भूमौ ; नौः = नौका ॥१.९४॥
🌻
तात्पर्यम्--
यत् आचरितुं प्रभवामः, तत् कार्यं सम्पन्नं भवत्येव। यत् आचरितुं न समर्थाः तत् असम्पन्नं भवति । (अस्योदाहर्णम्) वारिणि नौका गन्तुं पारयति, किन्तु स्थलयानं न याति। तथैव भुवि नौः न व्रजति । ॥१.९४॥
🌿
हिन्द्यर्थः--
जो कार्य नहीं होने लायक है, वह नहीं हो सकता है, और जो होने लायक है, वह सर्वदा हो ही सकता है । जैसे गाड़ी जल में नहीं चल सकती है और भूमि पर नाव नहीं चल सकती है । अर्थात्- जो कार्य होने लायक हो वही करना चाहिए, असम्भव कार्य के लिए प्रयत्न करना मूर्खता है ॥१.९४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.93

🌷
मूलम्--
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१.९३॥

🌺
पदविभागः--
दुर्जनः परिहर्तव्यः विद्यया अलङ्कृतः अपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥१.९३॥
🌸
अन्वयः--
दुर्जनः विद्यया अलङ्कृतः अपि सन् परिहर्तव्यः । मणिना भूषितः सर्पः असौ किम् न भयङ्करः? ॥१.९३॥
🌼
प्रतिपदार्थः--
दुर्जनः = दुष्टः ; विद्यया = ज्ञानेन ; अलङ्कृतः अपि सन् = भूषितः भूत्वा अपि ; परिहर्तव्यः = त्याज्यः ; मणिना = रत्नेन ; भूषितः = अलङ्कृतः ; सर्पः = नागः ; असौ = सः ; किम् न = (प्रश्नः) ; भयङ्करः = भयमुत्पादयति यः ; ॥१.९३॥
🌻
तात्पर्यम्--
ज्ञानेन आभूषितोऽपि दुष्टात्मा (दूरेणैव) परित्याज्यः। अत्र उदाहरणम्। भुजङ्गः रत्नेन अलङ्कृतोऽपि (सुन्दरः उपगमने योग्यः न भवति) भयमेवोत्पादयति ॥१.९३॥
🌿
हिन्द्यर्थः--
यदि दुर्जन विद्या से विभूषित भी हो तो भी उससे दूर ही रहना चाहिये । क्यों कि मणि से विभूषित होने पर भी क्या सर्प भयङ्कर नहीं होता है? अवश्य ही भयङ्कर होता है ॥१.९३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.92

🌷
मूलम्--
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥१.९२॥

🌺
पदविभागः--
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेन अपि सन्धिना । सुतप्तम् अपि पानीयं शमयति एव पावकम् ॥१.९२॥
🌸
अन्वयः--
शत्रुणा सुश्लिष्टेन अपि सन्धिना न हि सन्दध्यात् । पानीयं सुतप्तम् अपि पावकं शमयति एव ॥१.९२॥
🌼
प्रतिपदार्थः--
शत्रुणा = अमित्रेण, अहितकरेण ; सुश्लिष्टेन = सुदृढेन, स्वहितावहेन च ; सन्धिना = मैत्रिणा ; न सन्दध्यात् = संयुक्तो न भवेत् ; सुतप्तम् अपि = अत्यन्तम् उष्णम् अपि ; पानीयं = जलम् ; पावकं = वह्निम् ; शमयति = विनाशयति ॥१.९२॥
🌻
तात्पर्यम्--
अत्यन्तं दृढबन्धनशीलेन मैत्रिणा अपि अरिणा सह सुहृद्भावः न युक्तः । (अत्र उदाहरणम्) वारि तप्तम् अपि अग्निं निर्वापयति एव। [अत्र अयं भावः- नीरम् अग्नेः शत्रुः भवति। द्वयोः गुणौ विलोमौ। वह्निना युक्तः सन्नेव अम्बु उष्णीभवति। तेनैव तप्तं सदपि तदुदकम् अनलं ज्वलने न सहकरोति अपिच अपाकरोति।]॥१.९२॥
🌿
हिन्द्यर्थः--
उत्तम से उत्तम स्नेहभाव के द्वारा भी शत्रु से कभी सन्धि (मेल) नहीं करना चाहिये। क्यों कि यदि पानी गरम होगा तो भी वह अग्नि को तो बुझा ही देता है ॥१.९२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.90

🌷
मूलम्--
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् ।
न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥१.९०॥

🌺
पदविभागः--
साधोः प्रकोपितस्य अपि मनः न आयाति विक्रियाम् । न हि तापयितुं शक्यं सागर-अम्भः तृण-उल्कया ॥१.९०॥
🌸
अन्वयः--
प्रकोपितस्य साधोः अपि मनः विक्रियाम् न आयाति । सागराम्भः तृणोल्कया हि तापयितुं न शक्यम् ॥१.९०॥ 🌼
प्रतिपदार्थः--
साधोः = सज्जनस्य ; प्रकोपितस्य = कोपं प्रापितस्यापि ; मनः = मतिः ; विक्रियां = विकारम् ; न आयाति = न प्राप्नोति गच्छति वा ; हि = यतः ; सागराम्भः = समुद्रजलं ; तृणोल्का = तृणमेव उल्का इव, अग्नियुक्तघासः ; तापयितुं = उष्णीकर्तुं ; न शक्यम् = असाध्यम्; ॥१.९०॥
🌻
तात्पर्यम्--
सत्स्वभावयुक्तः (अन्यैः) कोपयुक्तं कृतः सन्नपि तस्य मानसं विकारलेशमपि न प्राप्नोति। अस्योदाहरणम्- समुद्रनीरम् अग्नियुक्तेन घासेन उष्णीकर्तुं न शक्यते। (साधुः सः परैः अपकारशतेन क्रोधितोपि सन् क्रुद्धो न भवति इति। कोपितोऽपि साधुतां न जहातीति भावः) ॥१.९०॥
🌿
हिन्द्यर्थः--
सज्जन का चित्त क्रोध दिलाये जाने पर भी विकार को प्राप्त नहीं होता है । जैसे समुद्र के जल को घास कूस को अग्नि (लुकाटी) से गरम नहीं किया जा सकता है । ॥१.९०॥
🙏

Friday, February 19, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.89

🌷
मूलम्--
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् ।
सतां हि साधुशीलत्वात् स्वभावो न निवर्तते ॥१.८९॥

🌺
पदविभागः--
तिरश्चाम् अपि विश्वासः दृष्टः पुण्य-एककर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावः न निवर्तते ॥१.८९॥
🌸
अन्वयः--
पुण्य-एककर्मणां तिरश्चाम् अपि विश्वासः दृष्टः । सतां स्वभावः साधु-शीलत्वात् न निवर्तते हि ॥१.८९॥
🌼
प्रतिपदार्थः--
तिरश्चां = पशुपक्ष्यादीनाम् ; विश्वासः = आश्वासः ; दृष्टः = अनुभूतः ; (पुण्यमेकं कर्म येषा तेषां) पुण्यैककर्मणां = पुण्यात्मनां जनानाम् ; साधुशीलत्वात् = शुभाचारत्वात् ; स्वभावः = प्रकृतिः (व्यवहरणाधारभूतः मूलभूतः गुणः) ; साधुता शीलत्वं तस्मात् ; न निवर्तते = (जन्मान्तरेऽपि) न अपयाति ॥१.८९॥
🌻
तात्पर्यम्--
ये पशुपक्षिणः पुण्यवन्तः भवन्ति, तेषु परस्परं विश्वासः दृश्यते । सज्जनाः प्रकृतेः सदाचारित्वं न त्यजन्ति ॥१.८९॥
🌿
हिन्द्यर्थः--
पुण्यात्मा पशुपक्षियों का भी परस्पर में विश्वास देखा गया है, क्यों कि पुण्यवान् सज्जनों का स्वभाव साधुशील (सदाचारी) होने के कारण किसी भी योनि (जन्म) में नहीं बदलता है ॥१.८९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.87

🌷
मूलम्--
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ॥१.८७॥

🌺
पदविभागः--
त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः । अत्युत्कटैः पापपुण्यैः इह एव फलम् अश्नुते ॥१.८७॥
🌸
अन्वयः--
अत्युत्कटैः पापपुण्यैः त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः फलम् इह एव अश्नुते ॥१.८७॥
🌼
प्रतिपदार्थः--
अत्युत्कटैः = विषमैः ; पापपुण्यै = सत्कर्मभिः दुष्कर्मभिः च ; वर्षैः = वत्सरावधिककालेन ; मासैः = मासावधिककालेन ; पक्षैः = पक्षावधिककालेन ; दिनैः = दिवसैः ; इह एव = अस्मिन्नेव जन्मनि ; अश्नुते = उपभुङक्ते ॥१.८७॥
🌻
तात्पर्यम्--
तीव्राणां दुराचरणानां सदाचरणानां वा प्रतिफलम अवश्यम् आप्यते। अत्र एव लोके लभ्यते। ततः त्रिवर्षकाले, त्रिमासकाले, त्रिपक्षकाले अथवा त्रिदिवसकाले एव मानवेन प्राप्यते। (अतः जागरूकतया सावधानतया च भाव्यम्।) ॥१.८७॥
🌿
हिन्द्यर्थः--
उत्कट पापों व पुण्यों का फल इसी लोक में- तीन वर्ष में, या तीन महीने में, या तीन पक्ष में, या तीन दिन के भीतर ही मनुष्य को मिल जाता है ॥१.८७ ॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.86

🌷
मूलम्--
दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥१.८६॥

🌺
पदविभागः--
दुर्जनः प्रियवादी च न एतद् विश्वास-कारणम् । मधु तिष्ठति जिह्व-अग्रे हृदि हालाहलं विषम् ॥१.८६॥
🌸
अन्वयः--
दुर्जनः प्रियवादी च- एतद् विश्वास-कारणं न । जिह्वाग्रे मधु तिष्ठति हृदि हालाहलं विषं (तिष्ठति) ॥१.८६॥
🌼
प्रतिपदार्थः--
दुर्जनः = दुष्टः ; प्रियवादी = यः मधुरं वदति ; नैतत् = न एष विषयः ; विश्वासकारणं = आश्वासहेतुः ; मधु = माक्षिकं, अत्र माधुर्यम् अर्थः ; जिह्वाग्रे = रसनायां ; तिष्ठति = वर्तते, हृदि = हृदये ; हालाहलं = स्थावरविषभेदः ; विषम् = गरलम् ;  ॥१.८६॥
🌻
तात्पर्यम्--
यः दुर्मनाः सन् मधुरालापं करोति तथापि तत्र आश्वासः न विधेयः, यतस्तस्य जिह्वायामेव मधुनः माधर्यं भवति। हृदये तु पुनः गरलमिव अतिभयानकभावना भवति। ॥१.८६॥
🌿
हिन्द्यर्थः--
दुर्जन भी कभी सच्चा प्रियवादी (मीठा बोलनेवाला हितैषी) हो सकता है, यह कभी विश्वास नहीं करना चाहिए, क्यों कि दुर्जन की जिह्वा पर हो मधुरता रहती है, परन्तु हृदय में तो उसके हलाहल विष ही भरा हुआ है ॥१.८६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.85

🌷
मूलम्--
प्राक् पादयोः पतति खादति पृष्ठमांसं
कर्णे कलं किमपि रौति शनैर्विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति ॥१.८५॥

🌺
पदविभागः--
प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे कलं किम् अपि रौति शनैः विचित्रम् । छिद्रं निरूप्य सहसा प्रविशति अशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥१.८५॥
🌸
अन्वयः--
प्राक् पादयोः पतति। पृष्ठ-मांसं खादति। कर्णे शनैः विचित्रं किम् अपि कलं रौति । सहसा छिद्रं निरूप्य अशङ्कः प्रविशति। मशकः सर्वं खलस्य चरितं करोति ॥१.८५॥
🌼
प्रतिपदार्थः--
प्राक् = पूर्वम्। पादयोः पतति = नीचैः गच्छति, (खलपक्षे-) चरणयोः प्रणमति च । पृष्ठमांसं खादति = पृष्ठे दशति, (खलपक्षे-) पृष्ठतो निन्दां करोति च ; कर्णे = श्रवणाङ्गे ; कलं = सुमधुरम् ; विचित्रं = नानाप्रकारम् ; किमपि = अनिर्वचनीयम् ; रौति = कूजति, कथयति च ; छिद्रं = विवरम्, अवसरं च ; निरूप्य = दृष्ट्वा ; अशङ्कः = निर्भयः सन् ; सहसा = सपदि, झटिति, अकस्मात् ; सर्वं = आसमन्तात्, अशेषं ; खलस्य = दुष्टस्य ; मशकः = दंशः ; चरितं = आचरणं ; ॥१.८५॥
🌻
तात्पर्यम्--
मशकः पूर्वं चरणयोः दशति। ततः मांसं खादन् इव पृष्ठभागं दशति। (केवलं दंशित्वा न विश्राम्यति) कर्णयोः आगत्य किमपि मधुरं गायन्निव ध्वनिं करोति । ततः तत्र रन्ध्रमस्तीति दृष्ट्वा अन्तः निर्भयं प्रविशति। (खलोऽपि तथैवास्ति।) प्रथमं पादयोः नमस्करोति। ततः पृष्ठतः अस्माभिरविज्ञातम् अस्माकमेव निन्दां करोति। ततश्च अवसरं प्राप्य अन्येषां दोषान् अस्माकं पुरतः कथयति, अस्मासु आक्रमणमपि करोति। ॥१.८५॥
🌿
हिन्द्यर्थः--
मच्छर पहले पैर पर गिरता है, फिर पीठ का मांस खाता है, पुनः धीरे-धीरे कान में कुछ गुनगुनाता है, फिर धीरे-धीरे मौका देखकर सहसा निर्भय होकर भीतर प्रवेश कर जाता है। इस प्रकार मच्छर दुर्जनों के सब चरित्रों का अनुकरण करता है । दुष्ट भी- पहले पैर पर गिरता है, फिर परोक्ष में (पीछे से) काम को बिगाड़ता है, फिर कान के पास आकर दूसरों की चुगली करता है, और मौका पाते ही आक्रमण भी करता है ॥१.८५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.84

 🌷
मूलम्--
दुर्जनेन समं सख्यं वैरं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥१.८४॥

🌺
पदविभागः--
दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । उष्णः दहति च अङ्गारः शीतः कृष्णायते करम् ॥१.८४॥
🌸
अन्वयः--
दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । अङ्गारः उष्णः दहति शीतःच करं कृष्णायते ॥१.८४॥
🌼
प्रतिपदार्थः--
सख्यं = स्नेहं, मैत्रीं ; अङ्गारः = कोकिलः (कोयला) ; उष्णः = प्रदीप्तः सन् ; दहति = अग्नियुक्तं करोति ; शीतः = अनुष्णः कृष्णायते - कृष्णं करोति = मलिनीकुरुते। करं = हस्तम् ॥१.८४॥
🌻
तात्पर्यम्--
दुष्टेन साकं मित्रता वा शत्रुता वा न कार्या। (सः अङ्गारवत् भवति) अङ्गारः यदि तप्तः भवति तर्हि पाणिं तापयति। यदि अनुष्णः भवति तदा हस्तं कालवर्णेन मलिनं करोति॥१.८४॥
🌿
हिन्द्यर्थः--
🙏
दुर्जन के साथ मित्रता और प्रीति दोनों ही नहीं करनी चाहिये। क्यों कि -अङ्गार गरम (जलता) हो तो हाथ जलता है, और वही यदि शीतल हो तो हाथ को ही काला कर देता है ॥१.८४॥