Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.72

मूलम्--
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते ।
अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥१.७२॥

 

पदविभागः--
स्वच्छन्द-वन-जातेन शाकेन अपि प्रपूर्यते । अस्य दग्ध-उदरस्यार्थे कः कुर्यात् पातकं महत् ॥१.७२॥

अन्वयः--

स्वच्छन्द-वन-जातेन शाकेन अपि (उदरं) प्रपूर्यते । (एवं स्थिते) अस्य दग्ध-उदरस्यार्थे कः महत् पातकं कुर्यात्? (न करोतीति भावः) ॥१.७२॥

प्रतिपदार्थः-- 

स्वच्छन्द-वन-जातेन = स्वतन्त्रतया वने उद्भूतेन सुलभेन ; शाकेन = फलमूल-शाकादिना, वृक्षोत्पदनेन ; प्रपूर्यते = यत्परिपूर्णं भवति ; तस्य दग्धोदरस्य = उदरहतकस्य, धिग् अस्य उदरस्य ; अर्थे = निमित्तं ; कः = कः सचेताः पुमान् ; महत् = नितरां गुरु ; पातकं = प्राणिवध-रूपं पापम् ; कुर्यात् = आचरेत् ; (न कश्चिदपि सहृदयः कुर्यादित्यर्थः) ॥१.७२॥

तात्पर्यम्--
स्वयमेव (विना कृषकेण, श्रमेण वा) अरण्ये उत्पन्नेन सस्येन जठरस्य भरणं भवति। (एवं सति) कः (बुद्धिहीनः) कुक्ष्यै (क्षुधापूर्तये जीवहननरूपकं) पापं विदधाति? ॥१.७२॥

हिन्द्यर्थः--
बिना बोये-जोते स्वयं वन में उत्पन्न हुए साग से भी जब यह पेट भरा जा सकता है, तो इस पापी पेट के लिये इतना बड़ा पाप कौन समझदार मनुष्य करेगा? अर्थात् इस पापी पेट के लिए किसी को भी ऐसा जघन्य काम नहीं करना चाहिये। ॥१.७२॥

No comments:

Post a Comment