Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.70

मूलम्--
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥१.७०॥


पदविभागः--
यः अत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिः अन्यः प्राणैः विमुच्यते ॥१.७०॥

अन्वयः--
यः यदा यस्य मांसम् अत्ति उभयोः अन्तरं पश्यत । एकस्य क्षणिका प्रीतिः (भवति) । अन्यः प्राणैः विमुच्यते ॥१.७०॥

प्रतिपदार्थः--
यः = पुमान् ; यस्य = मृगादेः ; यदा = यस्मिन् समये ; अत्ति = भक्षयति ; उभयोः = भक्ष्यभक्षकयोः ; अन्तरं = भेदम् ; पश्यत = विलोकयत ; एकस्य = भक्षकस्य पुंसः तु ; क्षणिका = भक्षण-मात्रस्थायिनी एव ; प्रीतिः = तृप्तिः ; परम्- अन्यः = मृगादिः भक्ष्यभूतः पशुस्तु ॥१.७०॥

तात्पर्यम्--
कश्चन जीवः यदा अन्यप्राणिनः मांसं खादति, तदा द्वयोः मध्ये भेदः एवमस्ति। यः मांसभुक्, सः तात्कालिकं बुभुक्षाशमनरूपम् आनन्दमनुभवति। किन्तु यं जीवं स भुङ्क्ते, स जीवः प्राणान् त्यजति (मरणं प्राप्नोति इति तस्य सर्वदा नाशः) ॥१.७०॥

हिन्द्यर्थः--

एक प्राणी जब दूसरे प्राणी का मांस खाता है, तो उस समय उन दोनों का भेद देखिये। एक (खानेवाले) को तो क्षणभर का आनन्द (आस्वाद) मिलता है, परन्तु दूसरा (भक्ष्य प्राणी) सर्वदा के लिये इस संसार से चला जाता है ॥१.७०॥

No comments:

Post a Comment