Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.61

मूलम्--
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥१.६१॥


पदविभागः--
तृणानि भूमिः उदकं वाक् चतुर्थी च सूनृता । एतानि अपि सतां गेहे न उच्छिद्यन्ते कदाचन ॥१.६१॥

अन्वयः--
सतां गेहे- तृणानि, भूमिः, उदकं, वाक्, चतुर्थी च सूनृता - एतानि अपि कदाचन न उच्छिद्यन्ते ॥१.६१॥

प्रतिपदार्थः--
तृणानि = आस्तरणार्थं पलाल-कुशादीनि ; भूमिः = निवास-स्थानम् ; उदकं = पानाद्यर्थे शीतलं पयः ; एतत् त्रितयं ; किञ्च-चतुर्थी- ; सूनृता = प्रिया, सत्या च ; वाक् = वाणी ; ['सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपी'ति मेदिनी] ; एतानि = चत्वारि ; अपि = तु ; सतां = साधूनां ; गेहे = गृहे ; न उच्छिद्यन्ते कदाचन = न कदाचन विरलीभवन्ति ; सदैव सुलभानि एव इत्याशयः ॥१.६१॥

तात्पर्यम्--
सज्जनानां गृहे- (उपवेशनाय, शयनाय च) तृणानि, (वासयोग्या) धरा, (तृषाशान्त्यर्थं) जलं, मधुरा च वाणी- एतानि वस्तूनि कदापि अनुपलब्धतां न यान्ति ॥१.६१॥

हिन्द्यर्थः--
बिछाने के लिए और बैठने के लिए पुआल आदि घास फूस, रहने को स्थान, जल- ये तीन चीज़ और चौथा मीठा वचन, इन चार चीज़ों की कमी तो सज्जनों के घर में कभी भी नहीं होती है । अर्थात् कुछ भी घर में देने को न हो तो भी इन चार वस्तुओं से ही अतिथि का सत्कार करना चाहिये ॥१.६१॥

No comments:

Post a Comment