Wednesday, December 4, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.53

मूलम्--
व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥१.५३॥


पदविभागः--
व्योम-एकान्त-विहारिणः अपि विहगाः सम्प्राप्नुवन्ति आपदं बध्यन्ते निपुणैः अगाध-सलिलात् मत्स्याः समुद्राद् अपि । दुर्नीतं किम् इह अस्ति किं सुचरितं कः स्थानलाभे गुणः कालः हि व्यसन-प्रसारित-करः गृह्णाति दूराद् अपि ॥१.५३॥

अन्वयः--
विहगाः व्योम-एकान्त-विहारिणः अपि आपदं सम्प्राप्नुवन्ति । मत्स्याः अगाध-सलिलात् समुद्राद् अपि निपुणैः बध्यन्ते । इह दुर्नीतं किम् अस्ति? किं सुचरितं (अस्ति)? कः स्थानलाभे गुणः (अस्ति)? व्यसन-प्रसारित-करः कालः हि दूराद् अपि गृह्णाति ॥१.५३॥

प्रतिपदार्थः--
विहगाः = पक्षिणः ; व्योमैकान्त-विहारिणः अपि = दूरतर-गगनाङ्गण-विहारिणः अपि ; आपदं = प्राणसङ्कटं, जालबन्धनादि-विपदम् ; सम्प्राप्नुवन्ति = लभन्ते ; निपुणैः = कुशलैः ; अगाध-सलिलात् = अतल-स्पर्शिजल-पूर्यात् ; समुद्रादपि = सागरादपि ; मत्स्याः = मीनाः ; बध्यन्ते = जलात् अपनीय गृह्यन्ते ; लौकैरिति शेषः ; दुर्नीतं = दुश्चरितं ; सुचरितं = शोभनम् आचरणं वा- किम्? । स्थानलाभे = दुर्धर्ष-निरापद-दुरासद-दुर्गम-स्थानलाभे वा ; को गुणः = किं फलम्? ; कालः = मृत्युः ; व्यसन-प्रसारितकरः = विपदवसरे करौ प्रसार्य इव ; दूरादपि = दुर्गमादपि स्थानात् ; गृह्णाति = आदत्ते ॥१.५३॥

तात्पर्यम्--
पक्षिणः दूरे गगने डयमाना अपि सङ्कटे पतन्ति । अगाधे वारिनिधौ स्थिता अपि मीनाः धीवरैः प्रसारितैः जालैः निर्बध्यन्ते । इह लोके किं साधु, किमसाधु? अत्यन्तं योग्यस्थानप्राप्त्या किम्? मृत्युः दूरादपि विपत्तिरूपेण आगत्य करौ विस्तीर्य (अस्मान् अवश्यं) धरति ॥१.५३॥

हिन्द्यर्थः--
आकाश के एकान्त और अत्युच्च प्रदेश में विहार करने वाले पक्षी भी आपत्ति में फँस जाते हैं । चतुर लोग अथाह जल वाले समुद्र से भो मछलियों को पकड़ लेते हैं । इसलिये इस संसार में क्या अच्छा है? और क्या बुरा है? और क्या योग्य स्थान की प्राप्ति में भी लाभ है? अर्थात् कुछ नहीं । क्यों कि कालरूपी शत्रु व्यसन (विपत्ति) रूपी हाथ पसारे बैठा है, और वह मौका पाते ही दूर से भी प्राणियों को पकड़ लेता है ॥१.५३॥

No comments:

Post a Comment