Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.83

मूलम्--
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् ।
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥१.८३॥


पदविभागः--
उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् । तं जनम् असत्यसन्धं भगवति वसुधे कथं वहसि ॥१.८३॥

अन्वयः--
भगवति वसुधे, यः उपकारिणि विश्रब्धे शुद्ध-मतौ पापं समाचरति, तम् असत्यसन्धं जनं कथं वहसि ॥१.८३॥

प्रतिपदार्थः--
वसुधे = हे पृथ्वि! ; उपकारिणि = उपकारपरे ; विश्रब्धे = विश्वासमुपगते ; अत एव - शुद्ध-मतौ = सरलाशये, अशङ्किते ; पापं = (अत्र) विश्वासघातेन अनिष्टम् ; असत्यसन्धम् = असत्यप्रतिज्ञं, मिथ्याभाषिणम् ; कथं वहसि = त्वं कथं धारयसि? ॥१.८३॥

तात्पर्यम्--
यः (अस्मत् प्रति) उपकृतिमाचरति, अस्मासु विश्वसिति, शङ्कां न करोति- तादृशं प्रति यदि कोऽपि कपटम् आचरति, तर्हि हे भूमातः, त्वं तं (विश्वासघातकं) कथं (स्वस्यां) जीवयसि? (त्वया सः न धार्यः इति भावः)। ॥१.८३॥

हिन्द्यर्थः--
जो प्राणी-उपकारी, विश्वासी, एवं निष्कपट प्राणी के साथ भी विश्वासघात करता है, उस कपटी झूटे नीच पुरुष को तुम कैसे धारण करती हो? ॥१.८३॥

हितोपदेश-सुभाषित-श्लोकाः - 1.82

मूलम्--
संलापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च वशीकृतानाम् ।
आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति ॥१.८२॥


पदविभागः--
संलापितानां मधुरैः वचोभिः मिथ्या-उपचारैः च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यम् अस्ति ॥१.८२॥

अन्वयः--
संलापितानां मधुरैः वचोभिः मिथ्या-उपचारैः च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यम् अस्ति ॥१.८२॥

प्रतिपदार्थः--
संलापितानां= विहितालापानाम् (विश्वस्तानामिति यावत्), यैः सह परिचयो जातः तेषां ; किञ्च, मिथ्या = कपटपूर्णैः ; उपचारैः- सेवा-सत्कारादिभिः ; वशीकृतानां = वशे स्थापितानां वा ; आशावताम् = आशा-पाशेन बद्धानां च ; च = किञ्च ; श्रद्धावतां = श्रद्दधतां वा, ये श्रद्धालवः तेषां वा ; अर्थिनां= याचकानां, प्रणयिनां च ; किं वञ्चयितव्यम् = कि वञ्चनीयम्? (अस्ति? इति अवशिष्यते) ; विश्वस्तवञ्चने किं कौशलम् इत्यर्थः ॥१.८२॥

तात्पर्यम्--
ये परिचिताः, ये च सुवचनैः कपट-सेवाभिः आकृष्टाः, ये लोभपूरिताः, ये श्रद्धावन्तः, ये च भिक्षुकाः-- तान् वञ्चयितुं कः न समर्थः? (यः कोऽपि तत् विनायासं साध्नोतीति, एतादृशाः स्वयमेव वञ्चकानां वशे आपतन्तीति वा भावः) ॥१.८२॥

हिन्द्यर्थः--
मीटी-मीठी बातों से तथा कपटमय सत्कारों से वश में किए गए तथा आशा रखनेवाले श्रद्धालु लोगों व याचकों को ठगना कौन बड़ी बात है? ॥१.८२॥

हितोपदेश-सुभाषित-श्लोकाः - 1.81

मूलम्--
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥१.८१॥
 
पदविभागः--
परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥१.८१॥

अन्वयः--
परोक्षे कार्य-हन्तारं, प्रत्यक्षे प्रियवादिनम्- तादृशं विषकुम्भं पयोमुखं मित्रं वर्जयेत् ॥१.८१॥

प्रतिपदार्थः--
परोक्षे = अन्यत्र स्थिते सति ; कार्य-हन्तारं = कार्यनाशकं ; प्रत्यक्षे = उपस्थितौ ; प्रियवादिनम् = प्रियं वक्ति यः तं ; तादृशं = तद्वन्मित्रं ; विषकुम्भं पयोमुखं = यस्यान्ते विषमस्ति, बहिस्तु पयः दर्श्यते तादृग् घटः, तं ; मित्रं = सुहृदं ; वर्जयेत् = त्यजेत् ॥१.८१॥

तात्पर्यम्--
यः अनुपस्थितौ सति कार्यविघातं करोति, पुरतः स्थिते सति प्रीतिकराणि वचांसि वदति, तं मित्रं त्यजेत्। सः तत्कुम्भ इव भवति, यत्र अन्तः गरलमस्ति, उपरि दुग्धं दृश्यते ॥१.८१॥

हिन्द्यर्थः--
जो पीठ पीछे काम को बिगाड़ता है, और सामने मीठी बातें करता है, ऐसे अन्दर विषभरे, पर बाहर दूध दिखाने वाले घड़े के समान मित्र का त्याग करना चाहिए ॥१.८१॥

हितोपदेश-सुभाषित-श्लोकाः - 1.80

मूलम्--
दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् ।
न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः ॥१.८०॥


पदविभागः--
दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गत-आयुषः ॥१.८०॥

अन्वयः--
दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गत-आयुषः ॥१.८०॥

प्रतिपदार्थः--
दीप-निर्वाण-गन्धं = निर्गतः दीपः, तस्य सुगन्धं ; सुहृद्-वाक्यम् = मित्राणां, हितकाङ्क्षिणां वचनानि ; अरुन्धतीम् = ताराम् ; न जिघ्रन्ति = घ्रातुं न शक्नुवन्ति ; न शृण्वन्ति = न आकर्णयन्ति ; न पश्यन्ति = न वीक्षन्ते ; गत-आयुषः = येषां आयुः समाप्तम् ॥१.८० ॥

तात्पर्यम्--
येषां जीवनकालः समाप्तप्रायः, ते विगतस्य दीपस्य गन्धं न जिघ्रन्ति, हितैषिणां वचः न श्रुण्वन्ति, अरुन्धतीतारां न ईक्षन्ते ॥१.८०॥

हिन्द्यर्थः--
जिनका आयु क्षीण होगया, वे दीपक के बुझने वाले गन्ध को नहीं सूंघते। हितैषी के बातों को नहीं सुनते। और अरुन्धती नक्षत्र को नहीं देखते ॥१.८०॥

हितोपदेश-सुभाषित-श्लोकाः - 1.79

मूलम्--
अपराधो न मेऽस्तीति नैतद् विश्वासकारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥१.७९॥


पदविभागः--
अपराधः न मे अस्ति इति न एतद् विश्वास-कारणम् । विद्यते हि नृशंसेभ्यः भयं गुणवताम् अपि ॥१.७९॥

अन्वयः--
(मम) मे अपराधः नास्ति इति एतद् विश्वास-कारणम् न (अस्ति)। गुणवताम् अपि नृशंसेभ्यः भयं विद्यते हि ॥१.७९॥

प्रतिपदार्थः--
अपराधः = दोषः ; विश्वासकारणम् = आश्वासनस्य आस्पदम् ; नृशंसेभ्यः = क्रूरजनेभ्यः ; गुणवताम् = सज्जनानाम् ॥

तात्पर्यम्--
स्वस्य दोषाचरणं न विद्यते इति मात्रेण विश्वासः न कर्तव्यः। सद्गुणयुक्तानामपि क्रूरजनेभ्यः भयं विद्यते।
(हिंसापराः अकारणमेव सर्वेभ्यः अहितमाचरन्ति। कश्चित् सच्छीलोऽपि भवतु, अपकृतेराचरणं विनापि, नृशंसः तं न त्यजति। अतः सावधानेन भाव्यमिति यावत्।) ॥१.७९॥

हिन्द्यर्थः--
मेरा कोई अपराध नहीं है- यह कोई कारण नहीं है आश्वासन का। गुणवान व्यक्तियों को भी क्रूरजनों से भय होता ही है॥

हितोपदेश-सुभाषित-श्लोकाः - 1.78

मूलम्--
सुहृदां हितकामानां यः शृणोति न भाषितम् ।
विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥१.७८॥

पदविभागः--
सुहृदां हित-कामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य सः नरः शत्रु-नन्दनः ॥१.७८॥

अन्वयः--
यः हित-कामानां सुहृदां भाषितं न शृणोति, तस्य विपत् सन्निहिता (इति ज्ञातव्यम्)। सः नरः शत्रु-नन्दनः ॥१.७८॥

प्रतिपदार्थः--
सुहृदां = मित्राणां ; हितकामानां= हितैषिणाम् ; भाषितम् = उपदेशम् ; विपत् = कष्टं ; सन्निहिता समीपवर्ति ; शत्रुनन्दनः = शत्रुभ्यः हर्षप्रदः (विपन्नं तं दृष्ट्वा शत्रवो नन्दन्तीत्यर्थः) ॥१.७८॥

तात्पर्यम्--
शुभचिन्तकानां मित्राणां उक्तीः यः नाकर्णयति, तस्य जीवने दुःखकरसमयः समीपे अस्तीति ज्ञातव्यम्। सः अरीणां मनःसु सन्तोषं जनयति ॥१.७८॥

हिन्द्यर्थः--
जो लोग अपने हित चाहने वाले मित्रों का कहना नहीं सुनते हैं, उनके ऊपर विपत्ति अवश्य आती है और वे अपने शत्रुओं के आनन्द के कारण ही होते हैं ॥१.७८॥

हितोपदेश-सुभाषित-श्लोकाः - 1.77

मूलम्--
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥१.७७॥

पदविभागः--
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राजद्वारे श्मशाने च यः तिष्ठति सः बान्धवः ॥१.७७॥

अन्वयः--
यः- उत्सवे, व्यसने प्राप्ते, दुर्भिक्षे, शत्रु-सङ्कटे, राजद्वारे, श्मशाने च- तिष्ठति, सः बान्धवः ॥१.७७॥

प्रतिपदार्थः--
उत्सवे = विवाहादौ आनन्दसमये ; व्यसने = विपत्तौ ; दुर्भिक्षे = अनावृष्टौ, अन्नकष्टे, अकाले ; राष्ट्रविप्लवे = राज्यभङ्गे, राजपरिवर्तनावसरे ; राजद्वारे = बन्धनागारे, धर्माधिकरणे वा ; श्मशाने = पितृवने, प्रियमरणे ; तिष्ठति = साहय्यमाचरति ॥१.७७॥

तात्पर्यम्--
सन्तोषवेलायां, कष्टसमये, अन्नाभावकाले, राज्यसङ्कटे स्थिते, राज्ञः पुरतः, गृहे बन्धुववियोगे-- यः (पार्श्वे) भवति (धैर्यं संवर्धयन्, हितमाचरति) स एव मित्रं, बान्धवो वा ॥१.७७॥

हिन्द्यर्थः--
हर्ष में, शोक में, दुर्भिक्ष पड़ने पर, राज्य क्रान्ति के समय, राज-द्वार (कचहरी) में और श्मशान में जो साथ देता है, वही सच्चा मित्र है ॥१.७७॥

हितोपदेश-सुभाषित-श्लोकाः - 1.76

मूलम्--
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् ।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥१.७६॥


पदविभागः--
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥१.७६॥

अन्वयः--
मित्रम् आपत्सु जानीयात्। शूरं रणे (जानीयात्)। शुचिम् ऋणे (जानीयात्)। भार्यां क्षीणेषु वित्तेषु (जानीयात्)। बान्धवान् च व्यसनेषु (जानीयात्) ॥१.७६॥

प्रतिपदार्थः--
जानीयात् = (अत्र) परीक्षेत ; शुचिम् = शुद्धव्यवहारम् ; क्षीणेषु = विनष्टेषु ; वित्तेषु = धनेषु ; व्यसनेषु = विपत्तिषु ; 'जानीया'दिति शेषः ॥१.७६॥

तात्पर्यम्--
(कस्य वास्तवं स्वभावं कस्मिन् स्थितौ ज्ञायेत इति उच्यते क्रमेण) सङ्कटे स्थितौ सुहृदं, युद्धकाले वीरं, ऋणप्रसङ्गे (स्वीकारे अथवा प्रत्यर्पणवेलायां) स्पष्टव्यवहारं, धनहानौ पत्नीं, महद्दुःखवेलायां बन्धुजनान् च ज्ञायेत। ॥१.७६॥

हिन्द्यर्थः--
आपत्ति में-मित्र को, युद्ध में-वीर को, ऋण में-साफ और निष्कपट को, निर्धनता में-स्त्रीको, दुःख पड़ने पर-भाई बन्धुओं को पहचानना चाहिये ॥१.७६॥

हितोपदेश-सुभाषित-श्लोकाः - 1.75

मूलम्--
न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद् रिपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥१.७५॥

पदविभागः--
न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवः तथा ॥१.७५॥

अन्वयः--
कश्चित् कस्यचित् मित्रं न (भवति)। कश्चित् कस्यचिद् रिपुः न (भवति) । व्यवहारेण (एव) मित्राणि रिपवः (वा) तथा जायन्ते ॥१.७५॥

प्रतिपदार्थः--
मित्रं = स्वभावतो मित्रम् ; रिपुः = सहजो शत्रुः ; व्यवहारेण = हित-अहित-आचरणेन, कार्यकारणभावेन च ॥१.७५॥

तात्पर्यम्--
कोऽपि कस्यापि सहजमेव सुहृद् वा, अरिर्वा न भवति। (परस्परं) यथा समाचरति, (तस्य फलतः) सौहार्दभावो वा अमित्रभावो वा (तन्मध्ये) समुत्पद्यते ॥१.७५॥

हिन्द्यर्थः--
स्वभाव से तो न कोई किसी का मित्र है और न कोई किसी का शत्रु ही है । शत्रुता और मित्रता तो व्यवहार (कार्य) से ही होती है ॥१.७५॥

हितोपदेश-सुभाषित-श्लोकाः - 1.74

मूलम्--
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥१.७४॥

पदविभागः--
अयं निजः परः वा इति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधा एव कुटुम्बकम् ॥१.७४॥

अन्वयः--
अयं निजः परः वा इति लघु-चेतसां गणना । उदार-चरितानां तु वसुधा एव कुटुम्बकम् ॥१.७४॥

प्रतिपदार्थः--
अयं = अयं जनः ; निजः = आत्मीयः, अयं परः = अयं जनः अपरः, शत्रुर्वा ; इति = इत्येवं ; लघुचेतसां = सङ्कुचित-चित्तानां, तुच्छानां ; गणना = विचारो भवति ; उदार-चरितानां = महानुभावानां, महतान्तु ; वसुधैव = सकलं जगदपि ; कुटुम्बकम् = कुटुम्बतुल्यमेव ; सर्वत्रैव तेषामात्मीयभाव इत्यर्थः ॥१.७४॥

तात्पर्यम्--
(मनुष्यान् दृष्ट्वा) एषः मदीयः, एषः इतरः इति अधमानां चिन्तनं भवति। ये उन्नतचेताः तेषां (दृष्टौ) संसारः सर्वः स्वकुलम् इव वर्तते ॥१.७४॥

हिन्द्यर्थः--

'यह मेरा है', 'यह दूसरा है' यह विचार तो छोटे लोगों का ही होता है । बड़े लोगों का तो संसार ही अपना कुटुम्ब है ॥१.७४॥

हितोपदेश-सुभाषित-श्लोकाः - 1.73

मूलम्--
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥१.७३॥

 
पदविभागः-- 

यत्र विद्वज्जनः नास्ति श्लाघ्यः तत्र अल्पधीः अपि । निरस्त-पादपे देशे एरण्डः अपि द्रुमायते ॥१.७३॥

अन्वयः-- 

यत्र विद्वज्जनः नास्ति, तत्र अल्पधीः अपि श्लाघ्यः । निरस्त-पादपे देशे एरण्डः अपि द्रुमायते ॥१.७३॥

प्रतिपदार्थः-- 

विद्वज्जनः = पण्डितजनः ; श्लाघ्यः = प्रशंसार्हः ; अल्पधीः अपि = मन्दबुद्धियुक्तः, तुच्छमतिः अपि ; निरस्तपादपे = वृक्षशून्ये ; एरण्डः = पञ्चाङ्गुलः ; द्रुमायते = द्रुम इव आचरति, वृक्षशब्दं धत्ते ; एवञ्च भवान् ॥१.७३॥

तात्पर्यम्-- 

यस्मिन् प्रदेशे बहुश्रुतः नास्ति, तत्र लघुवेत्तापि विख्यायते । (अत्र उदाहरणम्) यत्र वृक्षाः न विद्यन्ते, तत्र एरण्डोऽपि वृक्षत्वं प्राप्नोति ॥१.७३॥

हिन्द्यर्थः-- 

जहाँ कोई योग्य विद्वान् नहीं है, वहाँ अल्प बुद्धि वाले पुरुष की भी प्रशंसा होती है। जिस जगह वृक्ष नहीं हैं, वहाँ रेंड भी वृक्ष कहा जाता है ॥१.७३॥

हितोपदेश-सुभाषित-श्लोकाः - 1.72

मूलम्--
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते ।
अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥१.७२॥

 

पदविभागः--
स्वच्छन्द-वन-जातेन शाकेन अपि प्रपूर्यते । अस्य दग्ध-उदरस्यार्थे कः कुर्यात् पातकं महत् ॥१.७२॥

अन्वयः--

स्वच्छन्द-वन-जातेन शाकेन अपि (उदरं) प्रपूर्यते । (एवं स्थिते) अस्य दग्ध-उदरस्यार्थे कः महत् पातकं कुर्यात्? (न करोतीति भावः) ॥१.७२॥

प्रतिपदार्थः-- 

स्वच्छन्द-वन-जातेन = स्वतन्त्रतया वने उद्भूतेन सुलभेन ; शाकेन = फलमूल-शाकादिना, वृक्षोत्पदनेन ; प्रपूर्यते = यत्परिपूर्णं भवति ; तस्य दग्धोदरस्य = उदरहतकस्य, धिग् अस्य उदरस्य ; अर्थे = निमित्तं ; कः = कः सचेताः पुमान् ; महत् = नितरां गुरु ; पातकं = प्राणिवध-रूपं पापम् ; कुर्यात् = आचरेत् ; (न कश्चिदपि सहृदयः कुर्यादित्यर्थः) ॥१.७२॥

तात्पर्यम्--
स्वयमेव (विना कृषकेण, श्रमेण वा) अरण्ये उत्पन्नेन सस्येन जठरस्य भरणं भवति। (एवं सति) कः (बुद्धिहीनः) कुक्ष्यै (क्षुधापूर्तये जीवहननरूपकं) पापं विदधाति? ॥१.७२॥

हिन्द्यर्थः--
बिना बोये-जोते स्वयं वन में उत्पन्न हुए साग से भी जब यह पेट भरा जा सकता है, तो इस पापी पेट के लिये इतना बड़ा पाप कौन समझदार मनुष्य करेगा? अर्थात् इस पापी पेट के लिए किसी को भी ऐसा जघन्य काम नहीं करना चाहिये। ॥१.७२॥

हितोपदेश-सुभाषित-श्लोकाः - 1.71

मूलम्--
मर्तव्यमिति यद् दुःखं पुरुषस्योपजायते ।
शक्यते नानुमानेन परेण परिवर्णितुम् ॥१.७१॥

 

पदविभागः--
मर्तव्यम् इति यद्-दुःखं पुरुषस्य उपजायते । शक्यते न अनुमानेन परेण परिवर्णितुम् ॥१.७१॥

अन्वयः--
पुरुषस्य यत् मर्तव्यम् इति दुःखम् उपजायते, परेण अनुमानेन परिवर्णितुं न शक्यते ॥१.७१॥

प्रतिपदार्थः--
'मया मर्त्तव्यमिदानी'मिति ज्ञात्वा, यत् = यादृशं ; दुःखं = मनःक्लेशः ; पुरुषस्य = जन्तोः ; उपजायते = भवति ; तेन = तद्धेतुकेन ; अनुमानेन = अनुमित्या ; परोऽपि = मृगपक्ष्यादिरपि ; शक्यः = योग्यः ;
    'मरणाद्यथा मम दुःखं, तथैव परस्यापीति विज्ञाय परोऽपि स्वात्मवदेव रक्षणीय इत्याशयः ॥१.७१॥

तात्पर्यम्--
मनुष्यस्य या मरणविषया पीडा अनुभूयते, सा (यः तं क्लेशम् अधुना नानुभवति तेन) अन्यजनेन (‘इदमित्थम् एवंरूपेण दुःखं भवती’ति शब्दैः) प्रकटयितुं न शक्या ॥१.७१॥

हिन्द्यर्थः--
'मुझको मरना होगा' यह सोच कर मरने वाले मनुष्य को जो दुःख होता है, उसको दूसरा मनुष्य केवल अनुमान से वर्णन नहीं कर सकता है ॥१.७१॥

{ माम् सः भक्षयिताsमुत्र यस्य मांसम् इह अद्मि अहम् ।
इति मांसस्य मांसत्वम् प्रवदन्ति मनीषिणः ।।
अद्मि - खादामि
वह परलोक में मुझे खाएगा जिसका मांस मैं इस लोक में खा रहा हुँ ।बुद्धिमान लोगों का कहना है इसी कारण से मांस को माम् (मुझको) + सः (वह) कहते हैं ।}

हितोपदेश-सुभाषित-श्लोकाः - 1.70

मूलम्--
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥१.७०॥


पदविभागः--
यः अत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिः अन्यः प्राणैः विमुच्यते ॥१.७०॥

अन्वयः--
यः यदा यस्य मांसम् अत्ति उभयोः अन्तरं पश्यत । एकस्य क्षणिका प्रीतिः (भवति) । अन्यः प्राणैः विमुच्यते ॥१.७०॥

प्रतिपदार्थः--
यः = पुमान् ; यस्य = मृगादेः ; यदा = यस्मिन् समये ; अत्ति = भक्षयति ; उभयोः = भक्ष्यभक्षकयोः ; अन्तरं = भेदम् ; पश्यत = विलोकयत ; एकस्य = भक्षकस्य पुंसः तु ; क्षणिका = भक्षण-मात्रस्थायिनी एव ; प्रीतिः = तृप्तिः ; परम्- अन्यः = मृगादिः भक्ष्यभूतः पशुस्तु ॥१.७०॥

तात्पर्यम्--
कश्चन जीवः यदा अन्यप्राणिनः मांसं खादति, तदा द्वयोः मध्ये भेदः एवमस्ति। यः मांसभुक्, सः तात्कालिकं बुभुक्षाशमनरूपम् आनन्दमनुभवति। किन्तु यं जीवं स भुङ्क्ते, स जीवः प्राणान् त्यजति (मरणं प्राप्नोति इति तस्य सर्वदा नाशः) ॥१.७०॥

हिन्द्यर्थः--

एक प्राणी जब दूसरे प्राणी का मांस खाता है, तो उस समय उन दोनों का भेद देखिये। एक (खानेवाले) को तो क्षणभर का आनन्द (आस्वाद) मिलता है, परन्तु दूसरा (भक्ष्य प्राणी) सर्वदा के लिये इस संसार से चला जाता है ॥१.७०॥

हितोपदेश-सुभाषित-श्लोकाः - 1.69

मूलम्--
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥१.६९॥


पदविभागः--
एकः एव सुहृद् धर्मः निधने अपि अनुयाति यः । शरीरेण समं नाशं सर्वम् अन्यत् तु गच्छति ॥१.६९॥

अन्वयः--
धर्मः एक एव सुहृद् यः निधने अपि अनुयाति । सर्वम् अन्यत् तु शरीरेण समं नाशं गच्छति ॥१.६९॥

प्रतिपदार्थः--
एकः एव = केवलः ; निधनेऽपि = मरणेऽपि ; अनुयाति = प्राणिभिः सह गच्छति ; समं= सार्द्धम् ; अन्यत् = धनादिकम् ; गच्छति = याति ॥१.६९॥

तात्पर्यम्--
(नश्वरे अस्मिन् लोके) धर्मः (पुण्यं) मरणेऽपि प्राप्ते जीवेन साकं गच्छति। तद्भिन्नं समस्तं कायनाशं समनन्तरमेव विनश्यति ॥१.६९॥

हिन्द्यर्थः--
और धर्म ही केवल एक ऐसा मित्र है, जो मरने पर भी साथ देता है। और सब सम्पत्ति तो शरीर के साथ ही नष्ट हो जाती है ॥१.६९॥

हितोपदेश-सुभाषित-श्लोकाः - 1.65

मूलम्--
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥१.६५॥

पदविभागः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्वदेवमयः अतिथिः ॥१.६५॥

अन्वयः--
उत्तमस्य वर्णस्य अपि गृहम् आगतः नीचः अपि यथायोग्यं पूजनीयः । अतिथिः सर्वदेवमयः ॥१.६५॥

प्रतिपदार्थः--
उत्तमस्यापि वर्णस्य = श्रेष्ठस्यापि ब्राह्मणादेर्वर्णस्य ; गेहे = गृहे ; नीचोऽपि = स्वतो निकृष्टः चाण्डालादिः अपि ; यथायोग्यं = यथोचितम् ; पूजनीयः = पूज्यः ; कुत एतदत आह- सर्वेति । सर्वदेवमयः = सर्वदेवस्वरूपः ॥१.६५॥

तात्पर्यम्--
अग्रवर्णस्य कस्यचित् गृहं प्रति इपि (कदाचित्) अन्त्यवर्णः कश्चित् आगच्छति चेत्, सः यथार्हं सत्क्रियापात्रमेव भवति । अभ्यागतस्तु सर्वदेवस्वरूपः ॥१.६५॥

हिन्द्यर्थः--
उत्तम वर्ण (ब्राह्मण आदि) के घर में यदि नीच वर्ण (चाण्डालादिक) भी अतिथि होकर आये तो उसका भी यथायोग्य सत्कार करना चाहिये, क्यों कि अतिथि सब देवताओंका रूप है ॥१.६५॥

हितोपदेश-सुभाषित-श्लोकाः - 1.64

मूलम्--
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥१.६४॥

पदविभागः--
अतिथिः यस्य भग्नाशः गृहात् प्रतिनिवर्तते । सः दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥१.६४॥

अन्वयः--
यस्य अतिथिः भग्नाशः (सन्) गृहात् प्रतिनिवर्तते, सः (अतिथिः) तस्मै (गृहस्थाय) दुष्कृतं दत्त्वा, पुण्यम् आदाय (च) गच्छति ॥१.६४॥

प्रतिपदार्थः--
यस्य = पुंसः ; गृहात् = निवासात् ; अतिथिः = अभ्यागतः ; भग्नाशः = निराशः सन् ; प्रतिनिवर्त्तते = पुराङ्मुखो गच्छति ; सः = अतिथिः ; तस्मै = गृहस्वामिने ; दुष्कृतं = स्वपापम् ; दत्त्वा = प्रदाय ; पुण्यं = गृहस्वामिनः पुण्यम् ; आदाय गच्छति = अपहरति, स्वीकृत्य निर्गच्छति ॥१.६४॥

तात्पर्यम्--
यदि (गृहमागतः) कश्चित् अतिथिः (केनचित्कारणेन) उपहतः सन् निर्गच्छति, तर्हि सः गृहस्थाय पापं दत्त्वा, (गहस्थेनाचरितं) सुकृतं च नीत्वा गच्छति ॥१.६४॥

हिन्द्यर्थः--
जिस गृहस्थ के घर से अतिथि निराश होकर लौट जाता है, तो वह अतिथि उस गृहस्थ को अपना पाप देकर और उसका पुण्य लेकर चला जाता है । [अर्थात् अतिथि को निराश करने से बड़ा पाप होता है ॥१.६४ ॥]

हितोपदेश-सुभाषित-श्लोकाः - 1.63

मूलम्-- 
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥१.६३॥

पदविभागः--
निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रः चाण्डाल-वेश्मनः ॥१.६३॥

अन्वयः--
साधवः निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति । चन्द्रः ज्योत्स्नां चाण्डाल-वेश्मनः न हि संहरते ॥१.६३॥


प्रतिपदार्थः--
अपरं च– साधवः निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति । चन्द्रः चाण्डाल-वेश्मनः ज्योत्स्नां न हि संहरते ॥१.६३॥
साधवः = सन्तः ; निर्गुणेष्वपि = अयोग्येष्वपि, नीचेष्वपि च ; सत्त्वेषु = भूतेषु ; दयां कुर्वन्ति = करुणां प्रदर्शयन्ति ; हि = यतः ; चन्द्रः = इन्दुः ; चाण्डाल-वेश्मनः = पतितान्तावसायिगेहात्। ज्योत्स्नां = स्वचन्द्रिकां ; न संहरते = न सङ्कोचयति ॥१.६३॥

तात्पर्यम्--
सज्जनाः गुणहीनेषु प्राणिषु अपि अनुकम्पां दर्शयन्ति। (अत्र उदाहरणम्-) इन्दुः कौमुदीं (सर्वत्र प्रसारयति) अत्यजगृहेषु अपि (अयोग्यानीति अमत्वा) स्वकान्तिं नोपसंहरति ॥१.६३॥

हिन्द्यर्थः--
महात्मा लोग गुणहीन (साधारण पामर, तुच्छ) जीवों पर भी सदा दया ही करते हैं । देखो, चन्द्रमा चाण्डाल केघर से भी अपनी किरणों को नहीं हटाता है । अर्थात् चन्द्रमा की शीतल किरण गुणी व निर्गुण सभी के ऊपर समान ही पड़ती हैं ॥१.६३॥

हितोपदेश-सुभाषित-श्लोकाः - 1.62

मूलम्--
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥१.६२॥


पदविभागः--

बालः वा यदि वा वृद्धः युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वस्य आभ्यागतः गुरुः ॥१.६२॥

अन्वयः--

यदि बालः वा, वृद्धः वा, युवा वा गृहम् आगतः, (तर्हि) तस्य पूजा विधातव्या । आभ्यागतः सर्वस्य गुरुः (वर्तते) ॥१.६२॥

प्रतिपदार्थः--

गृहमागतः = स्वगृह-द्वारि समुपस्थितः, अतिथिः ; तस्य = अतिथेः ; पूजा = सत्क्रिया ; विधातव्या = कर्तव्या ; अभ्यागतः = अन्य-ग्रामादागतः अतिथिः ; गुरुः = पूज्यः ॥१.६२॥

तात्पर्यम्--

गेहस्य पुरतः आगतः अतिथिः बालकः, युवा, वृद्धो वा भवतु- तस्य समुचितः सत्कारः कर्तव्यः। अभ्यागतः सर्वेषां (सर्ववर्णाश्रमधर्मिणां) पूज्यः वर्तते ॥१.६२॥

हिन्द्यर्थः-- 

अतिथि यदि बालक हो या वृद्ध हो या जवान हो, वह यदि अपने घर पर आ जाय, तो उसकी पूजा अवश्य करनी चाहिये। क्यों कि अतिथि सभी का गुरु और पूज्य होता है ॥१.६२॥

हितोपदेश-सुभाषित-श्लोकाः - 1.61

मूलम्--
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥१.६१॥


पदविभागः--
तृणानि भूमिः उदकं वाक् चतुर्थी च सूनृता । एतानि अपि सतां गेहे न उच्छिद्यन्ते कदाचन ॥१.६१॥

अन्वयः--
सतां गेहे- तृणानि, भूमिः, उदकं, वाक्, चतुर्थी च सूनृता - एतानि अपि कदाचन न उच्छिद्यन्ते ॥१.६१॥

प्रतिपदार्थः--
तृणानि = आस्तरणार्थं पलाल-कुशादीनि ; भूमिः = निवास-स्थानम् ; उदकं = पानाद्यर्थे शीतलं पयः ; एतत् त्रितयं ; किञ्च-चतुर्थी- ; सूनृता = प्रिया, सत्या च ; वाक् = वाणी ; ['सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपी'ति मेदिनी] ; एतानि = चत्वारि ; अपि = तु ; सतां = साधूनां ; गेहे = गृहे ; न उच्छिद्यन्ते कदाचन = न कदाचन विरलीभवन्ति ; सदैव सुलभानि एव इत्याशयः ॥१.६१॥

तात्पर्यम्--
सज्जनानां गृहे- (उपवेशनाय, शयनाय च) तृणानि, (वासयोग्या) धरा, (तृषाशान्त्यर्थं) जलं, मधुरा च वाणी- एतानि वस्तूनि कदापि अनुपलब्धतां न यान्ति ॥१.६१॥

हिन्द्यर्थः--
बिछाने के लिए और बैठने के लिए पुआल आदि घास फूस, रहने को स्थान, जल- ये तीन चीज़ और चौथा मीठा वचन, इन चार चीज़ों की कमी तो सज्जनों के घर में कभी भी नहीं होती है । अर्थात् कुछ भी घर में देने को न हो तो भी इन चार वस्तुओं से ही अतिथि का सत्कार करना चाहिये ॥१.६१॥

हितोपदेश-सुभाषित-श्लोकाः - 1.60

मूलम्--
अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुः पार्श्वगताच्छायां नोपसंहरते द्रुमः ॥१.६०॥

पदविभागः--
अरौ अपि उचितं कार्यम् आतिथ्यं गृहम् आगते । छेत्तुः पार्श्वगतात् छायां न उपसंहरते द्रुमः ॥१.६०॥

अन्वयः--
अरौ अपि गृहम् आगते (सति) उचितं आतिथ्यं कार्यम् । द्रुमः छेत्तुः अपि पार्श्वगतात् छायां न उपसंहरते ॥१.६०॥

प्रतिपदार्थः--
अराविति । अरौ = शत्रौ-अपि ; गृहमागते सति- उचितं = योग्यम्, आतिथ्यम् = अतिथिसत्कारः ; द्रुमः = वृक्षः ; पार्श्वगतात् = निकटस्थितात् ; छेत्तुः = स्वच्छेदकात्, तक्ष्णः सकाशादपि ; स्वच्छायां नोपसंहरते = न सङ्कोचयति ॥१.६०॥

तात्पर्यम्--
(गृहस्थ-धर्मः च एषः–) यदा शत्रुः गृहमागच्छति, तदापि योग्या सत्क्रिया कार्या । (अत्रोपमानम्) यदा (तरुं खण्डशः कर्तुं) छेदकः परितः आगच्छति, तदापि वृक्षः (तं) छायां (प्रददाति), न निवर्तयति ॥१.६०॥

हिन्द्यर्थः--
शत्रु भी यदि अपने धर पर आ जाए तो उसका भी उचित आतिथ्य सत्कार करना चाहिए । देखो- वृक्ष अपने काटने वाले बढई, सुतार आदि की ओर से भी अपनी सुशीतल छाया को कभी नहीं हटाता है ॥१.६०॥

हितोपदेश-सुभाषित-श्लोकाः - 1.59

मूलम्-- 
जातिमात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् ।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥१.५९॥


पदविभागः-- 

जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यः अथवा भवेत् ॥१.५९॥

अन्वयः--

जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यः अथवा भवेत् ॥१.५९॥

प्रतिपदार्थः--

कश्चिदपि ; क्वचित् = कस्मिंश्चित् स्थलेऽपि ; जातिमात्रेण = 'अयं एवंजातीय' इत्येतावन्मात्रेणैव ; किं वध्यते = किं हन्यते ; किं पूज्यते = किं सत्क्रियते ; नैवेत्यर्थः ; व्यवहारं = तदाचारम् ; परिज्ञाय = दृष्ट्वा, अनुरुध्यैव वध्यः = हन्तव्यः ; पूज्यः = सत्कारयोग्यः ॥१.५९॥

तात्पर्यम्--

जन्ममात्रेण प्राप्तेन जीवाकारेण एव कोऽपि सत्क्रियार्हत्वं वा, हन्तव्यत्वं वा न प्राप्नोति । तस्य प्रवृत्त्या ज्ञायते यत् सः व्यापादितव्य उत सत्कारपात्रं वेति ॥१.५९॥

हिन्द्यर्थः--

क्योंकि-कोई भी व्यक्ति जातिमात्र ही से मारने वा पूजने लायक नहीं होता है, किन्तु उनका व्यवहार देख कर ही उसे मारना या पूजना चाहिए ॥१.५९॥

हितोपदेश-सुभाषित-श्लोकाः - 1.58

मूलम्--
तावद् भयस्य भेतव्यं यावद् भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥१.५८ ॥


पदविभागः-- 

तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥१.५८॥

अन्वयः-- 

यावद् भयम् अनागतं, तावद् भयस्य भेतव्यम् । आगतं भयं तु वीक्ष्य नरः यथोचितं कुर्यात् ॥१.५८॥

प्रतिपदार्थः-- 

भयस्य = भयजनकस्य चौरव्याघ्रादेः ; भेतव्यं = भीतिः कार्या ; भयं = भयप्रदं चोरव्याघ्रादिकम्, आगतम् = उपस्थितम् ; वीक्ष्य = दृष्ट्वा तु ; यथोचितं = यथायोग्यं तत्प्रतीकारोपायम् ; कुर्यात् = विदधीत ॥१.५८॥

तात्पर्यम्-- 

धैर्यहारकं, भीतिजनकं च यद्यद् कारणं भवति, तस्य आगमनात् पूर्वमेव भीतिर्न कार्या। (तस्मात् प्राक् धैर्यं वोढव्यम् ।) तस्मिन् आगते सति सकृत् परिशील्य यद् योग्यं तत् कर्तव्यम् ॥१.५८॥

हिन्द्यर्थः--
जब तक विपत्ति नहीं आये तभी तक उससे डरना चाहिये। पर यदि विपत्ति आ ही पड़े, तो मनुष्य को निर्भय होकर उसका यथोचित प्रतीकार करना चाहिए ॥१.५८॥

हितोपदेश-सुभाषित-श्लोकाः - 1.55

मूलम्--
यद्येन युज्यते लोके बुधस्तत् तेन योजयेत् ।
अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥१.५५॥
भक्ष्यभक्षयोः प्रीतिर्विपत्तेः कारणं मतम् ।

पदविभागः--
यद् येन युज्यते लोके बुधः तत् तेन योजयेत् । अहम् अन्नं भवान् भोक्ता कथं प्रीतिः भविष्यति । भक्ष्य-भक्षयोः प्रीतिः विपत्तेः कारणं मतम् ॥१.५५॥

अन्वयः--लोके यद् येन युज्यते, बुधः तत् तेन योजयेत् । अहम् अन्नं (अस्मि), भवान् (तु) भोक्ता (अस्ति), (अतः) कथं प्रीतिः भविष्यति? भक्ष्य-भक्षयोः प्रीतिः विपत्तेः कारणं (इति) मतम् ॥१.५५॥

प्रतिपदार्थः--यत् = सौहृदादि ; येन = येन सह ; युज्यते = तुल्यं भवति ; योजयेत् = योजनं कुर्यात् ; अन्नं = भक्ष्यभूतः, आहारः ; भोक्ता = भक्षकः ; प्रीतिः = मैत्री, स्नेहश्च ; भक्ष्य-भक्षयोः = खादितस्य, खादतुः च मध्ये ; प्रीतिः = स्नेहभावः ; विपत्तेः = आपत्तेः ; कारणमिति मन्यते ॥१.५५॥

तात्पर्यम्--अस्मिन् संसारे प्रज्ञावान् योज्यवस्तूनि एव परस्परं योजयति, नान्यानि, विरुद्धानि वा। आवयोः सा स्थितिः नास्ति, यत् साम्यं लेशमपि भवेत्। भवतः अहं आहारोऽस्मि। भवान् मां खादति। कथं साध्यमिति यावत् । अतः आवयोः मिथः स्नेहभावः न युक्तः ॥१.५५॥

हिन्द्यर्थः--क्योंकि-पण्डित को चाहिये कि जिसके साथ मेल (मित्रता) हौ सकता है, उसके ही साथ मेल करे । परन्तु मैं तो आपका अन्न (भक्ष्य) हूँ और आप मेरे भक्षक हैं । भला हमारी तुमारी मित्रता कैसे हो सकती है? ॥१.५५॥
🙏

Wednesday, December 4, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.54


यानि कानि च मित्राणि कर्त्तव्यानि शतानि च ।

पश्य मूषिकमिज्रेण कपोता मुक्तवन्धनाः ॥१.४॥

यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य, मूषिक-मित्रेण कपोताः मुक्तबन्धनाः ॥१.४॥

यानि कानि च मित्राणि कर्त्तव्यानि शतानि च, पश्य मूषिक-मित्रेण कपोताः मुक्तबन्धनाः ॥१.४॥

यानि कानि=निर्बलानि, सबलानि बा, योग्यानि, अयोग्यानि वा । शतानिध असङ्ख्यातानि । (सैकहो) । मुक्तबन्धनाः कृताः ॥१.५४

इसलिए मनुष्य को सभी प्रकार के अपने बहुत से मित्र करने चाहिये । देखो चित्रग्रीव के मित्र चूहेने कधूतरो को बन्धन से क्रुद्धा दिया या ॥१.५४

हितोपदेश-सुभाषित-श्लोकाः - 1.53

मूलम्--
व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥१.५३॥


पदविभागः--
व्योम-एकान्त-विहारिणः अपि विहगाः सम्प्राप्नुवन्ति आपदं बध्यन्ते निपुणैः अगाध-सलिलात् मत्स्याः समुद्राद् अपि । दुर्नीतं किम् इह अस्ति किं सुचरितं कः स्थानलाभे गुणः कालः हि व्यसन-प्रसारित-करः गृह्णाति दूराद् अपि ॥१.५३॥

अन्वयः--
विहगाः व्योम-एकान्त-विहारिणः अपि आपदं सम्प्राप्नुवन्ति । मत्स्याः अगाध-सलिलात् समुद्राद् अपि निपुणैः बध्यन्ते । इह दुर्नीतं किम् अस्ति? किं सुचरितं (अस्ति)? कः स्थानलाभे गुणः (अस्ति)? व्यसन-प्रसारित-करः कालः हि दूराद् अपि गृह्णाति ॥१.५३॥

प्रतिपदार्थः--
विहगाः = पक्षिणः ; व्योमैकान्त-विहारिणः अपि = दूरतर-गगनाङ्गण-विहारिणः अपि ; आपदं = प्राणसङ्कटं, जालबन्धनादि-विपदम् ; सम्प्राप्नुवन्ति = लभन्ते ; निपुणैः = कुशलैः ; अगाध-सलिलात् = अतल-स्पर्शिजल-पूर्यात् ; समुद्रादपि = सागरादपि ; मत्स्याः = मीनाः ; बध्यन्ते = जलात् अपनीय गृह्यन्ते ; लौकैरिति शेषः ; दुर्नीतं = दुश्चरितं ; सुचरितं = शोभनम् आचरणं वा- किम्? । स्थानलाभे = दुर्धर्ष-निरापद-दुरासद-दुर्गम-स्थानलाभे वा ; को गुणः = किं फलम्? ; कालः = मृत्युः ; व्यसन-प्रसारितकरः = विपदवसरे करौ प्रसार्य इव ; दूरादपि = दुर्गमादपि स्थानात् ; गृह्णाति = आदत्ते ॥१.५३॥

तात्पर्यम्--
पक्षिणः दूरे गगने डयमाना अपि सङ्कटे पतन्ति । अगाधे वारिनिधौ स्थिता अपि मीनाः धीवरैः प्रसारितैः जालैः निर्बध्यन्ते । इह लोके किं साधु, किमसाधु? अत्यन्तं योग्यस्थानप्राप्त्या किम्? मृत्युः दूरादपि विपत्तिरूपेण आगत्य करौ विस्तीर्य (अस्मान् अवश्यं) धरति ॥१.५३॥

हिन्द्यर्थः--
आकाश के एकान्त और अत्युच्च प्रदेश में विहार करने वाले पक्षी भी आपत्ति में फँस जाते हैं । चतुर लोग अथाह जल वाले समुद्र से भो मछलियों को पकड़ लेते हैं । इसलिये इस संसार में क्या अच्छा है? और क्या बुरा है? और क्या योग्य स्थान की प्राप्ति में भी लाभ है? अर्थात् कुछ नहीं । क्यों कि कालरूपी शत्रु व्यसन (विपत्ति) रूपी हाथ पसारे बैठा है, और वह मौका पाते ही दूर से भी प्राणियों को पकड़ लेता है ॥१.५३॥

हितोपदेश-सुभाषित-श्लोकाः - 1.52

मूलम्--
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवान् इति मे मतिः ॥१.५२॥


पदविभागः--
शशि-दिवाकरयोः ग्रहपीडनं गज-भुजङ्गमयोः अपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिः अहो बलवान् इति मे मतिः ॥१.५२॥

अन्वयः--

शशि-दिवाकरयोः ग्रहपीडनं, गज-भुजङ्गमयोः अपि बन्धनम् । मतिमतां च दरिद्रतां विलोक्य “अहो, विधिः बलवान्” इति मे मतिः ॥१.५२॥

प्रतिपदार्थः--
शशिदिवाकरयोः = सूर्यचन्द्रमसोः ।
ग्रहपीडनं = राहुणा ग्रहणम् ;
गजभुजङ्गमयोः = हस्तिसर्पयोः ;
बन्धनं = निग्रहं च ;
विलोक्य = दृष्ट्वा ;
च = पुनः ;
मतिमतां = विदुषां ;
दरिद्रतां = दारिद्र्यं च ;
विलोक्य
= दृष्ट्वा ;
अहो = इति आश्चर्ये, खेदे वा ;
विधिः = दैवं ;
बलवान् = अनिवार्यम् इति ;
मे = मम ;
मतिः = निश्चयः ;
'ग्रहः, सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोरिति मेदिनी ; ॥१.५२॥


तात्पर्यम्--
दिनकर-निशाकरयोः (राहु)ग्रहेण ग्रसनं, नागद्वयोः (करिणः, भुजगस्य च ) (व्याधेन) निर्बन्धनं, पण्डितानां धनहीनता च— एतत् त्रितयं दृष्ट्वा (स्थितः अहं) ‘विधिः बलीयः’ इति निश्चिनोमि ॥१.५२॥

हिन्द्यर्थः--
क्योंकि-- और भी--चन्द्रमा और सूर्य को ग्रहण की पीडा, अर्थात् ग्रहण लगना, हाथों और साँपों का बन्धन,पण्डितों की भी दरिद्रता, इन सब बातों को देखकर मैं तो समझता हूँ कि भाग्य ही सबसे प्रबल है ॥१.५२॥