Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.25



मूलम्-

ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः ।

परभाग्योपजीवी च षडेते दुःखभागिनः ॥१.२५॥



पदविभागः-

ईर्ष्यी घृणी तु असन्तुष्टः क्रोधनः नित्य-शङ्कितः । परभाग्य-उपजीवी च षड् एते दुःखभागिनः ॥१.२५॥



अन्वयः-

ईर्ष्यी घृणी असन्तुष्टः क्रोधनः नित्य-शङ्कितः परभाग्य-उपजीवी च-- एते षड् दुःखभागिनः (भवन्ति)॥१.२५॥



प्रतिपदार्थः-

ईर्ष्यी = ईर्ष्यालुः, परोत्कर्षासहिष्णुः ;
घृणी = घृणाशीलः, जुगुप्सा-स्वभावकः ;
असन्तुष्टः = सन्तुष्टि-हीनः
;
क्रोधनः = कोपस्वभावकः
;
नित्यशङ्कितः = यः सर्वदा सर्वत्र शङ्कां करोति
;
परभाग्योपजीवी = परान्नभोजी
, पराधीनः ;
षडेते दुःखभागिनः = एते षट्जनाः सर्वदा दुःखमेव अनुभवन्ति ॥१.२५॥



तात्पर्यम्-

एते षट्-जनाः नित्यं दुःखिता भवन्ति-- १. यः परेषामुत्कर्षं न सहते, अन्यस्य भाग्योदये खिन्नः भवति२. यः सर्वत्र घृणां प्रदर्शयति, ३. य असन्तुष्टः, कुत्रचित् केनचिदपि सन्तोषं नाननुभवति, ४. यः सदा क्रुद्धः भवति५. यः अकारणं, सकारणं वा सर्वत्र सन्देहं करोति, ६. य अन्येषां गृहे तिष्ठति, इतरेषां सम्पदा स्वजीवनं यापयति।🌻

No comments:

Post a Comment