Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.32



मूलम्-
स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः ।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥१.३२॥

पदविभागः-
सः बन्धुः यः विपन्नानाम् आपद्-उद्धरण-क्षमः । न तु भीत-परित्राण-वस्तु-उपालम्भ-पण्डितः ॥१.३२॥

अन्वयः-
यो विपन्नानाम् आपद्-उद्धरण-क्षमः सः बन्धुः । भीत-परित्राण-वस्तु-उपालम्भ-पण्डितः न तु ॥१.३२॥

प्रतिपदार्थः-
यो विपन्नानां = विपद्-ग्रस्तानाम् ; आपदुद्धरणे = विपत्तिनिरासे, आपदः अपाकरणे ; क्षमः = शक्तः, स एव बन्धुः = सुबन्धुः ; यस्तु- भीतपरित्राणे = विपन्नस्य रक्षणावसरे, उपालम्भ-पण्डितः = नानाविध-तत्तिरस्कार-वाक्यप्रयोग-विशारदः, यः आक्षेपकर-वाक्यानि, पीडाकर-वचनानि वा वदति, तथा वचने यः कुशलः सः ; न तु = नैव बन्धुः ॥१.३२॥

तात्पर्यम्-
यः आपदि आपतितायां ततः अस्मान् उद्धर्तुं समर्थः, स एव वास्तवबन्धुः। यः तदकृत्वा पीडाकरवचनैः त्रस्तस्य इतोऽधिक-भयोत्पादने समर्थः, स बन्धुः नास्ति। (आपदि पतितस्य भीतिः वर्धते। तदानीं बन्धुना भयनिष्कासनं कार्यं, न पुनः तद्वर्धक-दुर्वचनप्रयोगः।)॥१.३२॥

No comments:

Post a Comment