Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.39



मूलम्--
माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥१.३९॥

पदविभागः--
माता मित्रं पिता च इति स्वभावात् त्रितयं हितम् । कार्य-कारणतः च अन्ये भवन्ति हित-बुद्धयः ॥१.३९॥

अन्वयः--
माता मित्रं पिता च इति स्वभावात् त्रितयं हितम् । अन्ये च कार्य-कारणतः हित-बुद्धयः भवन्ति ॥१.३९॥

प्रतिपदार्थः--
माता = जननी ;
पिता = जनकः
;
मित्रं = सुहृत्
;
स्वभावात् = प्रकृत्यैव
;
त्रितयं = एते त्रयः ;
हितं = हितकारकम्
;
अन्ये तु = एतत्-त्रितयातिरिक्तास्तु
;
कार्यकारणतः = कार्यकारण-प्रसङ्गेनैव ;
किमपि कार्यं
, कारणं वा उद्दिश्यैव ;
हितबुद्धयः = हितकारकाः भवन्ति ॥१.३९॥

तात्पर्यम्--
पितरौ, सखा चेति त्रयः प्रकृत्या श्रेयस्कराः भवन्ति। एतान् विहाय अन्यजनाः यं कमपि लाभं मनसि निधाय शुभचिन्तका भवन्ति॥१.३९॥

No comments:

Post a Comment