मूलम्-
असम्भवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति ॥१.२८॥
पदविभागः-
असम्भवं हेममृगस्य जन्म तथापि रामः लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले
धियः अपि पुंसां मलिनाः भवन्ति ॥१.२८॥
अन्वयः-
हेममृगस्य जन्म असम्भवम्। तथापि रामः मृगाय लुलुभे । प्रायः
समापन्न-विपत्ति-काले, पुंसां धियः अपि मलिनाः भवन्ति ॥१.२८॥
प्रतिपदार्थः-
हेममृगस्य = स्वर्णमृगस्य ; जन्म = उत्पत्तिः ; असम्भवम्
= सम्भावनाविषयीभूतमपि न भवति ; तथापि रामः = सकल-ज्ञान-निधिः
भगवान् दाशरथिः अपि ; मृगाय = स्वर्ण-मृगम् आदातुं ; लुलुभे = लोभमकरोत् ; प्रायः = बाहुल्येन ; समापन्न-विपत्ति-काले ~ समापन्नाः = सन्निहताः,
आपतिताः, या विपदः, तासां
कालः = समयः, तस्मिन् ; पुंसां = पुरुषाणां,
मनुष्याणां ; धियः अपि = बुद्धयः अपि ;
मलिनाः = मलाविलाः, मलेन कुण्ठिताः ; भवन्ति = जायन्ते ; 'इति तर्कयामी'ति शेषः ॥१.२८॥
तात्पर्यम्-
‘स्वर्णः मृगः लोके कुत्रचिदपि न भवितुमर्हति’ इति जानन्नपि
साक्षात् पुरुषोत्तमः श्रीरामः अपि (मारीचधृत)काञ्चनं मृगरूपं दृष्ट्वा तं प्राप्तुम्
अकामयत। बहुधा एवं भवति- आपत्सु समापन्नेषु जनानां बुद्धयः अपि भ्रान्ताः भवन्ति।
(अतः विपत्तौ प्राप्ते सति जागरूकतया भवितव्यम्। यत्र
धीरपि प्रमाद्यते, तत्र अन्यचित्तवृत्तीनां किं वा कथनम्?
निर्णयकरणसमये अत्यन्तं विचक्षणैः भवितव्यम्- इति तात्पर्यम्। न पुनः
श्रीरामस्य विमर्शनमत्रार्थः।) ॥१.२८॥🍃
No comments:
Post a Comment