मूलम्-
आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥१.३१॥
पदविभागः-
आपदाम् आपतन्तीनां हितः अपि आयाति हेतुताम् । मातृजङ्घा हि
वत्सस्य स्तम्भीभवति बन्धने ॥१.३१॥
अन्वयः-
आपतन्तीनाम् आपदां हितः अपि हेतुताम् आयाति । मातृजङ्घा हि
वत्सस्य बन्धने स्तम्भीभवति ॥१.३१॥
प्रतिपदार्थः-
आपतन्तीनाम् = आगच्छन्तीनाम् ; हितः = हितकारकः, प्रियोऽपि ; हेतुतां = कारणताम् ; आयाति = प्राप्नोति, आगच्छति वा ; हि = यतः ; मातृजङ्घा = मातुः, गोः जङ्घा = पादाग्रभागः, काण्डम् ; वत्सस्य = स्वबाल-वत्सस्य ; स्तम्भी-भवति =
गोदोहनकाले तत्र प्रायो वत्सस्य बन्धनाद् वत्सबन्धनस्तम्भतां याति ।
बन्धनोपकरण-शङ्कुभावं भजतीत्यर्थः ॥१.३१॥
तात्पर्यम्-
जीवने या विपत्तयः आगच्छन्ति, तेषां पृष्ठे कारणं हितमपि भवितुमर्हति,
अर्थात् हितमपि तत्र विपदि कारणं भवति। अत्रोपन्यासः- गोः
दुग्धनिःसारणे वत्सः विघ्नमुत्पादयतीति मत्वा सः धेनोः पादेन रज्ज्वा बध्यते।
तदानीं मातुः पादः अपि वत्साय स्तम्भस्य कारणं भवति, गमनरोधनस्य
च॥१.३१॥
No comments:
Post a Comment