Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.42



मूलम्--
🌼
रोगशोकपरीतापबन्धनव्यसनानि च ।
आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥१.४२॥

पदविभागः-
रोग-शोक-परीताप-बन्धन-व्यसनानि च । आत्मा-अपराध-वृक्षाणां फलानि एतानि देहिनाम् ॥१.४२॥

अन्वयः--
एतानि देहिनाम् आत्मा-अपराध-वृक्षाणां फलानि (भवन्ति)-- रोग-शोक-परीताप-बन्धन-व्यसनानि च (इति) ॥१.४२॥

प्रतिपदार्थः--
देहिनां = शरीरिणाम् ;
परीतापः = सन्तापः
;
बन्धनं = कारादि-प्राप्तिः
;
तान्येव- व्यसनानि = विपत्तयः
;
तानि च-- आत्मापराधवृक्षाणां
~आत्मना कृताः अपराधाः, ते एव वृक्षाः तेषाम्-- अपराधाः = पापानि ; वृक्षाणां = स्वकर्म-वृक्षाणां, फलानि = फलभूतान्येव [स्वकृतैरेव पापैर्दुःखानि जनो लभते, नान्यैरिति भावः]॥१.४२॥

तात्पर्यम्--
आतुरता, हृत्पीडा, पश्चात्तापः, निर्बन्धः, दुःखकालाश्च प्राणिनां स्वयमाचरितानाम् अकार्याणां परिणामत्वेन सम्भवन्ति॥१.४२॥

No comments:

Post a Comment