मूलम्-
शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ? ॥१.२४॥
पदविभागः-
शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले । प्रवृत्तिः
कुत्र कर्तव्या जीवितव्यं कथं नु वा ? ॥१.२४॥
अन्वयः-
भूतले सर्वम् अन्नं पानं च शङ्काभिः आक्रान्तम् । कुत्र प्रवृत्तिः
कर्तव्या? कथं
नु वा जीवितव्यं? ॥१.२४॥
प्रतिपदार्थः-
भूतले = लोके ; सर्वं = अशेषं ; अन्नं = भक्ष्यम्,
भोजनम् ; पानं = पातुं योग्यं पदार्थं जलादिः ;
शङ्काभिः = (अत्र भोजन-सम्बन्धि-शङ्काः इति) वात-पित्त-कफादि-जन्य-रोगादि-शङ्काभिः
; आक्रान्तं = व्यापृतं ; कुत्र = कस्मिन्
भोज्ये पदार्थे ; प्रवृत्तिः कर्तव्या = (अत्र) खादितव्यम् ;
कथं नु = केन प्रकारेण? ; जीवितव्यम् = लोके स्थातव्यम्
;॥१.२४॥
तात्पर्यम्-
जगति यत्किञ्चित् खाद्यं, पानयोग्यं च वस्तु वर्तते, तत् समस्तं (वस्तुनः गुण-प्रभावादिषु) नानाविधसन्देहैः आपृतं वर्तते। (अनेन
कारणेन) किं खादनीयं, किं न (इति भ्रान्ताः), कथं वा जीवनयात्रां यापयाम इति (विचारयामश्च)।
No comments:
Post a Comment