Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.26



मूलम्-
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥१.२६॥

पदविभागः-
सुमहान्ति अपि शास्त्राणि धारयन्तः बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभ-मोहिताः ॥१.२६॥

अन्वयः-
(ये) बहुश्रुताः, सुमहान्ति अपि शास्त्राणि धारयन्तः, संशयानां छेत्तारः च, (ते) लोभ-मोहिताः (सन्तः) क्लिश्यन्ते ॥१.२६॥

प्रतिपदार्थः-
सुमहान्ति शास्त्राणि = सर्व-संशय-उच्छेदकानि, सुगूढ-तत्त्वानि, यानि च पठित्वा उत्कृष्टं ज्ञानं लभ्यते जनः ;
धारयन्तः = बुद्ध्या अर्थम् अवबोधितवन्तः ;
बहुश्रुताः = व्यवहार-पटवो
, नीति-विदश्च, ज्ञानवन्तः ;
संशयानां = पर-सन्देहानां
; छेत्तारः = निराकरिष्णवः, ये परिष्कुर्वन्ति ;
लोभमोहिताः = लोभात् मोहे पतिताः
;
क्लिश्यन्ते = दुःखम् अनुभवन्ति इत्यर्थः ॥१.२६॥

तात्पर्यम्-
उत्कृष्टानि, अत्युत्तमानि च शास्त्राणि अधीतवन्तः, पण्डिताः, ये परेषां स्वेषां च सन्देहानां निराकरणे समर्थाः सन्तः- ते अपि लोभकारणात् मोहिताः भवन्ति। अनेन मोहेन कष्टेषु पतन्ति च [अस्यार्थः- लोभात् जायमानात् मोहात् पतनात् च जागरूकतया भवितव्यमित्येव। शास्त्राध्ययनं त्यक्तव्यमिति न। यदि पण्डिताः एव लोभात् विभ्रमे पतन्ति, तत्र का वा सामान्यानां वार्ता? ]॥१.२६॥

No comments:

Post a Comment