मूलम्-
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥१.३३॥
पदविभागः-
विपदि धैर्यम् अथ अभ्युदये क्षमा सदसि वाक्-पटुता युधि
विक्रमः । यशसि च अभिरुचिः व्यसनं श्रुतौ प्रकृति-सिद्धम् इदं हि महात्मनाम्
॥१.३३॥
अन्वयः-
महात्मनाम् इदं हि प्रकृति-सिद्धम्-- विपदि धैर्यम्, अथ अभ्युदये क्षमा,
सदसि वाक्-पटुता, युधि विक्रमः, यशसि च अभिरुचिः, श्रुतौ व्यसनम् ॥१.३३॥
प्रतिपदार्थः-
महात्मनां = महापुरुषाणाम् ;
इदं प्रकृतिसिद्धं = स्वभाव-सिद्धमेव ;
किन्तद् इत्यत आह- विपदीति ;
धैर्यं =धैर्यमवलम्ब्य तत्प्रतीकार-चिन्तनम् ;
अभ्युदये = सम्पत्तौ ;
क्षमा = परानुग्रहः, अभिमानविरहश्च ;
सदसि = सभायां वाक्पटुता = वाक्पाटवं, वचनचातुरी ;
युधि = युद्धे, विक्रमः = पराक्रमः ;
यशसि = कीर्तौ ;
इच्छा = अभिलाषः, यशोधनत्वमिति यावत् ;
श्रुतौ = शास्त्रे, व्यसनम् = निर्हेतुकोऽनुरागः ॥१.३३॥
इदं प्रकृतिसिद्धं = स्वभाव-सिद्धमेव ;
किन्तद् इत्यत आह- विपदीति ;
धैर्यं =धैर्यमवलम्ब्य तत्प्रतीकार-चिन्तनम् ;
अभ्युदये = सम्पत्तौ ;
क्षमा = परानुग्रहः, अभिमानविरहश्च ;
सदसि = सभायां वाक्पटुता = वाक्पाटवं, वचनचातुरी ;
युधि = युद्धे, विक्रमः = पराक्रमः ;
यशसि = कीर्तौ ;
इच्छा = अभिलाषः, यशोधनत्वमिति यावत् ;
श्रुतौ = शास्त्रे, व्यसनम् = निर्हेतुकोऽनुरागः ॥१.३३॥
तात्पर्यम्-
कष्टकाले धीरत्वं, अभिवृद्धौ सहनभावः, सभायां
वचनसामर्थ्यं, समराङ्गणे पराक्रमः, कीर्तौ
काङ्क्षा, शास्त्राध्ययने निरन्तरपरिश्रमः --एते सर्वे
महाजनानां स्वभावलक्षणानि भवन्ति (एतेषां पृथक् शिक्षणस्य अभ्यासस्य वा आवश्यकता
नास्ति महात्मनामिति यावत्) ॥१.३३॥
No comments:
Post a Comment