Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.48


मूलम्

मांसमूत्रपुरीषास्थिपूरितेऽस्मिन् कलेवरे ।

विनश्वरे विहायास्थां यशः पालय मित्र मे ॥१.४८॥



पदविभागः--

मांस-मूत्र-पुरीष-अस्थि-पूरिते अस्मिन् कलेवरे । विनश्वरे विहाय आस्थां यशः पालय मित्र मे ॥१.४८॥



अन्वयः--

मित्र, अस्मिन् मांस-मूत्र-पुरीष-अस्थि-पूरिते विनश्वरे कलेवरे, आस्थां विहाय मे यशः पालय ॥१.४८॥



प्रतिपदार्थः--

मित्र = हे सुहृत् ;
मांसं = पिशितम् ;
मूत्रं = मेहनम्
;
पुरीषं = विष्ठा ;
अस्थि = कीकसम् ;
निर्मिते = विरचिते
, परिपूर्णे च ;
विनश्वरे = विनाशशीले ;
कलेवरे = शरीरे
;
आस्थां = आलम्बनं, आदरं वा ;
मे यशः = मम कीर्तिम्
;
पालय = रक्ष ; ॥१.४८॥



तात्पर्यम्--

हे सखे, कायः विण्मूत्रादिना निर्मितः अशाश्वतः। अतः त्वं (तत् परित्यज्य) मम अपेक्षां विहाय (शाश्वतस्थायिनं) ख्यातिं अव॥१.४८॥

No comments:

Post a Comment