Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.45



मूलम्--
धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥१.४५॥

पदविभागः--
धनानि जीवितं च एव परार्थे प्राज्ञः उत्सृजेत् । सन्निमित्ते वरं त्यागः विनाशे नियते सति ॥१.४५॥

अन्वयः--
प्राज्ञः धनानि जीवितं च एव परार्थे उत्सृजेत् । विनाशे नियते सति सन्निमित्ते त्यागः वरम् ॥१.४५॥

प्रतिपदार्थः--
प्राज्ञः = विद्वान् ;
जीवितं = प्राणान्
;
परार्थे = परोपकाराय ;
उत्सृजेत् = दद्यात्
;
विनाशे = मरणे ;
नियते = निश्चिते सति
;
सन्निमित्ते = सत्कार्यसिद्धये
, परोपकाराय ;
त्यागः = प्राणपरित्यागः ;
वरं = किञ्चित् श्रेष्ठः ॥१.४५॥

तात्पर्यम्--
बुधजनः परेषामुपयोगाय वित्तं जीवनं चार्पयति। नाशनमेव यदि (अशाश्वतेऽस्मिन्) लोके नियमः भवति, तर्हि सत्कार्याचरणार्थं धनप्राणयोः उपयोगः एव श्रेष्ठः॥१.४५॥

No comments:

Post a Comment