मूलम्-
सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥१.३४॥
पदविभागः-
सम्पदि यस्य न हर्षः विपदि विषादः रणे च भीरुत्वम् । तं
भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥१.३४॥
अन्वयः-
यस्य सम्पदि न हर्षः, विपदि विषादः (न), रणे च
भीरुत्वं (न), तं भुवन-त्रय-तिलकं सुतं जननी विरलं जनयति
॥१.३४॥
प्रतिपदार्थः-
सम्पदि = अर्थाभिवृद्धौ ; हर्षः = प्रमोदः, गर्वश्च
; विपदि = विपत्तौ, कष्टकाले ; विषादः = दुःखं, वैक्लव्यं ; रणे
= समरभूमौ ; धीरत्वम् = धैर्यगुणः ; तम्
= अनुत्सिक्तम् अकातरं, निर्भयञ्च ; भुवनत्रय-तिलकं
= लोकत्रये रत्नतुल्यम् ; जननी = अम्बा ; सुतं = पुत्रं ; विरलं = कञ्चिदेव, स्वल्पमेव ; जनयति = प्रसूते ; ॥१.३४॥
तात्पर्यम्-
यः जीवने अभिवृद्धिकाले गर्वं न प्राप्नोति, आपत्काले पीडां नानुभवति,
युद्धे धैर्यगुणं न मुञ्चति-- तादृशं पुत्रं माता बहु अल्पं प्रसूते
(एतादृशानां जननम् अधिकं न भवति। लोके अल्पसङ्ख्याकास्ते।) ॥१.३४॥
No comments:
Post a Comment