Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.27



मूलम्-
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥१.२७॥

पदविभागः-
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभात् मोहः च नाशः च लोभः पापस्य कारणम् ॥१.२७॥

अन्वयः-
लोभात् क्रोधः प्रभवति। लोभात् कामः प्रजायते । लोभान् मोहः च नाशः च (भवतः)। लोभः पापस्य कारणम् (भवति)॥१.२७॥

प्रतिपदार्थः-
लोभात् = पर-द्रव्ये अभिलाषायाः ; प्रभवति = प्रवर्त्तते, प्रवर्द्धते च ; प्रजायते = उत्पद्यते, प्रवर्द्धते च ;
लोभात्- मोहश्च, नाशश्च । 'उपजायते' इति शेषः । अतो लोभः पापस्य कारणमित्यर्थः ॥१.२७॥

तात्पर्यम्-
लोभस्य कारणेन किं किं प्रवर्धते इति उच्यते-- (लोभस्यासम्पूर्तौ) क्रोधः, (लोभस्य सन्तुष्टौ) कामः, मोहश्च जायेते। तेन पापं च प्रभवति। (पापमयं जीवनं भवति।) ॥१.२७॥

No comments:

Post a Comment