Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.41



मूलम्--
यस्माच्च येन च यथा च यदा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तथा च तदा च तच्च
तावच्च तत्र च विधातृवशादुपैति ॥१.४१॥

पदविभागः--
यस्मात् च येन च यथा च यदा च यत् च यावत् च यत्र च शुभ-अशुभम् आत्मकर्म । तस्मात् च तेन च तथा च तदा च तत् च तावत् च तत्र च विधातृ-वशाद् उपैति ॥१.४१॥

अन्वयः--
शुभ-अशुभम् आत्मकर्म, यस्मात् च येन च यथा च यदा च यत् च यावत् च यत्र च (आचरति) तस्मात् च तेन च तथा च तदा च तत् च तावत् च तत्र च विधातृ-वशाद् (फलम्) उपैति ॥१.४१॥

तात्पर्यम्--
यस्माद्धेतोः, येन-करणेन हस्तादिना, यथा च = येन च प्रकारेण ;
यदा च = यस्मिन् काले च, यत्-शुभाशुभशुभम् अशुभं वा ;
आत्मकर्म = स्वस्य पापपुण्य-सुखदुःखादिकं
;
यावत् = यावन्मितं;यत्र =यस्मिन्देशे च भावि; तत् = तस्मात् कारणात् ;
तेनैव = उपकरणेन, तथा तेनैव प्रकारेण ;
तदा च = तस्मिन्नेव काले च
;
तच्च = तत्फलम्
;
तावच्च = तावत् प्रमाणमेव
;
तत्रैव देशे ;
विधातृवशात् = भाग्यवशात् ;
उपैति = शुभाशुभमात्मफलं स्वयमेव नरमुपयाति ॥१.४१॥

तात्पर्यम्--
जीवः- १. येन कारणेन, २. येनोपायेन, ३. येन विधानेन, ४. यस्मिन् काले, ५. यस्मिन् देशे, ६. यत्स्वरूपकं, ७. यत्प्रमाणकं च, -पापमथवा पुण्यकर्म आचरति, तस्य फलमपि तत्कारणकं, तदुपायकं, तद्विधानकं, तत्कालकं, तद्देशकं, तत्प्रमाणकं, तथैव च भवति ॥१.४१॥

No comments:

Post a Comment