Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.43



मूलम्--
आपदर्थे धनं रक्षेद् दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥१.४३॥

पदविभागः--
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैः अपि । आत्मानं सततं रक्षेद् दारैः अपि धनैः अपि ॥१.४३॥

अन्वयः--
आपदर्थे धनं रक्षेत्। धनैः अपि दारान् रक्षेत् । दारैः अपि धनैः अपि आत्मानं सततं रक्षेत् ॥१.४३॥

प्रतिपदार्थः--
आपदर्थे = आपत्प्रतीकाराय ;
रक्षेत् = अर्जयेत्, निभृतं स्थापयेत् ;
दारान् = कलत्रम् ;
धनैः = धनदानादिभिः ;
रक्षेत् = गोपायेत् ;
आत्मानं = स्वशरीरन्तु ;
दारैरपि = पत्न्यपेक्षयापि
;
धनैरपि = धनापेक्षयापि च, तद्व्ययेनापि च ;
रक्षेत् = पालयेत् ॥१.४३॥

तात्पर्यम्--
कदाचित् भविष्यत्काले विपत्तिस्थितिः सम्भवेदिति धिया किञ्चित् धनम् उपयोगार्थं निकटे स्थापनीयम्। धनस्यापेक्षया पत्न्याः रक्षणं कार्यमथवा समये आपतिते वित्तेन भार्या रक्षणीया। ततश्च यदा आत्मनः विपत्कालः आपतेत्, तदानीं धनपत्न्योरपेक्षया, अथवा भार्यया, धनेन च स्वस्य रक्षणं करणीयम्॥१.४३॥

No comments:

Post a Comment