मूलम्--
विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् ।
तन्मे प्राणव्ययेनापि जीवयैतान् ममाश्रितान् ॥१.४७॥
पदविभागः--
विना वर्तनम् एव एते न त्यजन्ति मम अन्तिकम् । तत् मे
प्राण-व्ययेन अपि जीवय एतान् मम आश्रितान् ॥१.४७॥
अन्वयः--
एते वर्तनं विना एव न मम अन्तिकं न त्यजन्ति । तत् एतान् मम
आश्रितान् मे प्राण-व्ययेन अपि जीवय ॥१.४७॥
प्रतिपदार्थः--
वर्त्तनं = जीविकां, वेतनं ;
विनैव = (वेतनादिग्रहणं) विनाऽपि ;
मम अन्तिकं = मत्सान्निध्यं ;
न त्यजन्ति = न परिहरन्ति ;
तत् = तस्मात् ;
प्राण-व्ययेनापि = मत्प्राणोपयोगेन अपि ;
जीवय = पाशच्छेदेन एनान् परिपालय ॥१.४७॥
विनैव = (वेतनादिग्रहणं) विनाऽपि ;
मम अन्तिकं = मत्सान्निध्यं ;
न त्यजन्ति = न परिहरन्ति ;
तत् = तस्मात् ;
प्राण-व्ययेनापि = मत्प्राणोपयोगेन अपि ;
जीवय = पाशच्छेदेन एनान् परिपालय ॥१.४७॥
तात्पर्यम्--
(कपोतानां कथायां मूषकेन कपोत राजा इत्थं वदति-)
एतेभ्यः कपोतेभ्यः मासिकभृतिः कापि न दीयते, तथापि एते सदा
मम सन्निधावेव वसन्ति, मां न परित्यजन्ति। अतः मम प्राणः
अपगच्छेत् तथापि इमान् मम अधीने स्थितान् पूर्वं रक्ष- इति॥१.४७॥
No comments:
Post a Comment