Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.40



यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥१.४०॥

पदविभागः--
यस्य मित्रेण सम्भाषः यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापः ततः न अस्ति इह पुण्यवान् ॥१.४०॥

अन्वयः--
यस्य मित्रेण सम्भाषः, यस्य मित्रेण संस्थितिः, यस्य मित्रेण संलापः (च) ततः पुण्यवान् इह न अस्ति ॥१.४०॥

प्रतिपदार्थः--
यस्य मित्रेण = सुहृदा सह ; सम्भाषः = आलापः ; संस्थितिः = सहावस्थानम्., सहवासः ; संलापः = मुहुर्मुहः कथा, गोष्ठीबन्धः ; ततः = तदपेक्षया ; इह जगति ; पुण्यवान् = सुकृती ॥१.४०॥

तात्पर्यम्--
यः नित्यं सख्या आलपते, सह तिष्ठति, वार्तालापरतो भवति, ततः भाग्यवान् नरः न भवति अन्यः ॥१.४०॥

No comments:

Post a Comment