मूलम्--
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥१.३७॥
पदविभागः--
संहतिः श्रेयसी पुंसां स्वकुलैः अल्पकैः अपि । तुषेण अपि
परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥१.३७॥
अन्वयः--
पुंसां स्वकुलैः अल्पकैः अपि संहतिः श्रेयसी । तुषेण अपि
परित्यक्ता तण्डुलाः न प्ररोहन्ति ॥१.३७॥
प्रतिपदार्थः-
संहतिः = समूहः, सङ्घः ; श्रेयसी =
कल्याणप्रदा ; अल्पकैरपि = स्वल्पबलैरपि सह, तुच्छैरपि ; स्वकुलैः = स्ववंश्यैः, तुषेणापि परित्यक्ताः = धान्यत्वचा हीनाः ; तण्डुलाः
= धान्यकणाः ; न प्ररोहन्ति = अङ्कुरिता न भवन्ति ॥१.३७॥
तात्पर्यम्--
मनुष्याणां स्ववंश्य-जनैः सह सङ्घीभावः शुभप्रदः।
(सङ्गीभावस्य विरहे का दशा भवतीति उदाहरणमुच्यते) धान्यत्वचा वियुक्तानि
तण्डुलबीजानि (पुनः भूम्याम् उप्तानि) न अङ्कुरीभवन्ति। (पुनरुत्पत्तौ असमर्थानि
भवन्ति)॥१.३७॥
No comments:
Post a Comment