Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.36



मूलम्-
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥१.३६॥

पदविभागः-
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । तृणैः गुणत्वम् आपन्नैः बध्यन्ते मत्त-दन्तिनः ॥१.३६॥

अन्वयः-
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । गुणत्वम् आपन्नैः तृणैः मत्त-दन्तिनः बध्यन्ते ॥१.३६॥

प्रतिपदार्थः-
अल्पानां = स्वल्पानाम्, निर्बलानामपि ;
वस्तूनां = द्रव्याणां
;
संहतिः = सङ्घः ;
कार्यसाधिका = लक्ष्यसिद्धौ सहायिका
;
तृणैः = घासैः ;
गुणत्वमापन्नैः = संहत्या रज्जुत्वं प्राप्तैः ;
मत्तदन्तिनः = मदोन्मत्ता गजेन्द्रा अपि
;
बध्यन्ते = बन्धने स्थाप्यन्ते ॥१.३६॥

तात्पर्यम्-
अविशेषाणां वस्तूनामपि सङ्घीभवनेन (तेषां ह्रस्वत्वभावः निर्गच्छति, ततश्च) उन्नतं लक्ष्यमपि सुसाध्यं भवति। अत्रोदाहरणम्- मदयुक्ता गजाः (बलवन्तः सन्तः) अपि (अत्यल्पबलयुक्तानां) घासांशानां संयोजनेन या रज्जुः निर्मीयते तया बध्यन्ते॥१.३६॥

1 comment:

  1. Excellent especially कार्यसाधिका = लक्ष्यसिद्धौ सहायिका ;and तात्पर्यम्. You must be a good teacher to have written this ,

    ReplyDelete