Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.35



मूलम्-
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥१.३५॥

पदविभागः-
षड्-दोषाः पुरुषेण इह हातव्याः भूतिम् इच्छता । निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घ-सूत्रता ॥१.३५॥

अन्वयः-
भूतिम् इच्छता पुरुषेण इह षड्-दोषाः हातव्याः -- (ते एवं सन्ति) निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घ-सूत्रता (चेति) ॥१.३५॥

प्रतिपदार्थः-
षड्-दोषाः = तत्सङ्ख्याविशेषकाः अपाराधाः ;
भूतिम् = अष्टैश्वर्यम्
;
इच्छता = वाञ्छता ;
पुरुषेण
;
हातव्याः = परित्याज्याः ;
तन्द्रा = प्रमीला, निद्रेव नीरसभावः ;
आलस्यं = अलसत्वं
;
दीर्घसूत्रता = चिरक्रियता ; 'दीर्घसूत्रश्चिरक्रियः' इत्यमरः ॥१.३५॥

तात्पर्यम्-
यः अभिवृद्धिम् आकाङ्क्षति, तेन षट् अपराधा न कार्याः- (अधिक)निद्रा, नीरसभावः, भीतिः, कोपः, अलसत्वं, कार्यातिक्षेपः चेति॥१.३५॥

No comments:

Post a Comment