Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.30

मूलम्-
आपदां कथितः पन्था इन्द्रियाणामसंयमः ।
तज्जयः सम्पदां मार्गो, येनेष्टं तेन गम्यताम् ॥१.३०॥

पदविभागः-
आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः । तत्-जयः सम्पदां मार्गः येन इष्टं तेन गम्यताम् ॥१.३०॥

अन्वयः-
इन्द्रियाणाम् असंयमः आपदां पन्थाः कथितः । तत्-जयः सम्पदां मार्गः येन इष्टं तेन गम्यताम् ॥१.३०॥

प्रतिपदार्थः-
इन्द्रियाणाम्= चक्षुरादीनाम् ;
असंयमः = अनिग्रहः ;
आपदां = विपदां, दुःखस्य च ;
पन्थाः = मार्गः ;
कथितः = (नीतिविद्भिः) प्रोक्तः ;
तज्जयः = इन्द्रियाणां जयः, इन्द्रिय-निग्रहश्च ;
सम्पदां= सम्पत्तीनां, कल्याणस्य च ;
मार्गः = पन्थाः ;
येन = येन पथा ;
इष्टम् = अभीष्टसिद्धिः
;
तेन गम्यताम् = तदनुस्रियताम्
;
यद्वा- येन इष्टं = सुखं भवेत्, तेन = इन्द्रियजयमार्गेण, गम्यतामित्यर्थो बोध्यः ॥१.३०॥

तात्पर्यम्-
कर्म-ज्ञानेन्द्रियाणाम् अनियन्त्रणं विपत्तीनां मार्ग इति (बुधैः) कथितः। इन्द्रियाणां जयः तु सम्पत्तीनां मार्गः। येन मार्गेण गन्तुमिच्छसि, तेन गच्छतु। (यदि विपत्तय इष्टाः, तर्हि पूर्वस्मिन् मार्गे गच्छतु। यदि सम्पत्तय इष्टाः तर्हि परस्मिन् मार्गे गच्छतु। परिणामस्तु तव पुरतः वर्तते।)॥१.३०॥

1 comment:

  1. Is इष्टम् विशेषण to मार्गः । Then, it should have been इष्टः in the sloka.

    ReplyDelete