Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.29



मूलम्-
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥१.२९॥

पदविभागः-
न गणस्य अग्रतः गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्य-विपत्तिः स्यात् मुखरः तत्र हन्यते ॥१.२९॥

अन्वयः-
गणस्य अग्रतः न गच्छेत् । कार्ये सिद्धे (सति) समं फलम् (प्राप्यते) । यदि कार्य-विपत्तिः स्यात्, तत्र मुखरः हन्यते ॥१.२९॥

प्रतिपदार्थः-
गणस्य = सङ्घस्य, समूहस्य, वर्गस्य ;
अग्रतः = अग्रे
, सर्वस्मात् पुरतः ;
कार्ये = कर्त्तव्ये कर्मणि ;
सिद्धे = निष्पन्ने सति
, सफलत्वे प्राप्तौ सति ;
समं = तुल्यं, समानं ;
कार्यविपत्तिः = कार्यहानिः, असाफल्यम् ;
मुखरः = अग्रणीः
, प्रवर्त्तकश्च, नायकः ;
हन्यते = वध्यते ॥१.२९॥

तात्पर्यम्-
न कदापि समूहे सर्वेभ्यः अग्रे भवितव्यम्। कार्ये सफलत्वं प्राप्ते सति तु (समूहसदस्यानां नायकस्य च) सर्वेषामपि फले समानता भवति। परन्तु कार्यनाशे तु अग्रे विद्यमानस्य नायकस्यैव क्षतिः न तु इतरेषाम्।
[अत्र पक्षीणां प्रसङ्गः। कदापि तथा अग्रे मा गच्छतु इति न अस्यार्थः। अग्रे गमनस्य परिणामान् मनसि निधाय प्रवर्ततामिति, यदि धैर्यः अस्ति, तथैव गच्छतु इति वा भावना।] ॥१.२९॥

No comments:

Post a Comment