Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.44



मूलम्--
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥१.४४॥

पदविभागः--
धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थिति-हेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥१.४४॥

अन्वयः--
प्राणाः धर्मार्थ-काम-मोक्षाणां संस्थिति-हेतवः । तान् निघ्नता किं न हतम् ? रक्षता किं न रक्षितम्?

प्रतिपदार्थः--
प्राणाः = प्राणापानादिपञ्चवायवः ;
संस्थितिहेतवः = यथावत्पालनादि-हेतवः, जीवने कारणभूतानि ;
तान्प्राणान् स्वशरीरमिति यावत् ;
निघ्नता = विनाशयता
;
रक्षता = पालयता
;
धर्मार्थकाममोक्षाख्याश्चत्वारः पुरुषार्थाः॥१.४४॥

तात्पर्यम्--
(शरीरस्य धारणे ये हेतवः ते) प्राणाः एव धर्मादि-पुरुषार्थ-चतुष्टयस्य संस्थापनेऽपि कारणम्। पुरुषः प्राणान् हत्वा सर्वं हन्ति, प्राणान् ऊत्वा (अव्+त्वा) सर्वम् अवति॥१.४४॥

No comments:

Post a Comment