Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.51



मूलम्--
योऽधिकाद् योजनशतात् पश्यतीहामिषं खगः ।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥१.५१॥

पदविभागः--
यः अधिकाद् योजन-शतात् पश्यति इह आमिषं खगः । सः एव प्राप्त-कालः तु पाशबन्धं न पश्यति ॥१.५१॥

अन्वयः--
यः खगः योजन-शतात् अधिकाद् इह आमिषं पश्यति, सः एव प्राप्त-कालः तु पाशबन्धं न पश्यति ॥१.५१॥

प्रतिपदार्थः--
खगः = गृध्रादिः ;
योजनशताद् अपि अधिकात् = शतमपि योजनानां पारे ;
आमिषं = स्वभक्ष्यं मांसं ;
पश्यति = (अत्र) द्रष्टुं शक्नोति
;
स एव = दूरदृष्टिः खगः
;
प्राप्त-कालः = आसन्नमृत्युः सन् ;
पाशबन्धं = जालं ;
न पश्यति = नैव लक्षयति ॥१.५१॥

तात्पर्यम्--
यः पक्षी शताधिकयोजनदूरात् खाद्यपदार्थं मांसं द्रष्टुं शक्नोति, स एव मुत्यौ समीपे स्थिते सति (समीपस्थं) जालं न पश्यति॥१.५१॥

हितोपदेश-सुभाषित-श्लोकाः - 1.50



मूलम्--
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥१.५०॥

पदविभागः--
शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् । शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनः गुणाः ॥१.५०॥

अन्वयः--
शरीरस्य गुणानां च अन्तरम् अत्यन्तं दूरम् । शरीरं क्षण-विध्वंसि । गुणाः कल्पान्त-स्थायिनः ॥१.५०॥

प्रतिपदार्थः--
शरीरस्य = देहस्य ;
अत्यन्तं दूरं = नितरां विप्रकृष्टम्
;
अन्तरं = प्रभेदः ;
क्षणविध्वंसि = अचिरविनाशि, क्षणभङ्गुरम् ;
गुणाः = दयादाक्षिण्यादयः, यश इति यावत्
; कल्पान्तस्थायिनः = प्रलयपर्यन्तस्थायिनः ॥१.५०॥

तात्पर्यम्--
देहस्य गुणानां च मध्ये भेदः महान्। कायः अविलम्बेन विनश्यति। गुणास्तु सृष्टिविलयं यावत् तिष्ठन्ति॥१.५०॥

हितोपदेश-सुभाषित-श्लोकाः - 1.49



मूलम्--
यदि नित्यमनित्येन निर्मलं मलवाहिना ।
यशः कायेन लभ्येत तन्न लब्धं भवेन् नु किम् ॥१.४९॥

पदविभागः--
यदि नित्यम् अनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तत् न लब्धं भवेत् नु किम् ॥१.४९॥

अन्वयः--
यदि नित्यं, निर्मलं, यशः- अनित्येन, मलवाहिना, कायेन- लभ्येत तत् (तर्हि) न लब्धं किम् नु भवेत् ? ॥१.४९॥

प्रतिपदार्थः--
नित्यं = चिरस्थायि ;
निर्मलं = स्वच्छम् ;
यशः = कीर्तिः
;
अनित्येन = नश्वरेण
;
मलवाहिना = मलमूत्रपरिपूर्णेन
;
कायेन = शरीरेण
;
तत्र
'नु'-इति वितर्के ।
किं लब्धं न भवेत् = सर्वमेव लब्धं भवेदित्यर्थः ॥१.४९॥

तात्पर्यम्--
यदि शाश्वती, मलरहिता कीर्तिः, अशाश्वतकेन, दूषितेन देहेन (तन्माध्यमेन) लभ्यते, तर्हि न किमपि अप्राप्तं शिष्यते। (सर्वमेव लब्धमिति यावत्।) ॥१.४९॥