Thursday, May 12, 2016

हितोपदेश-सुभाषित-श्लोकाः- 1.9




मूलम्-
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥१.९॥

पदविभागः-अन्वयः-
तत्र पूर्वः चतुर्वर्गः दम्भार्थम् अपि सेव्यते । उत्तरः तु चतुर्वर्गः महात्मनि एव तिष्ठति ॥१.९॥

प्रतिपदार्थः-
तत्र = अष्टविधे पूर्वोक्ते धर्ममार्गे ;
पूर्वश्चतुर्वर्गः = इज्याध्ययनतपो-दानात्मकः ;
दम्भार्थं = लोकसङ्ग्रह-लोकवञ्चनाद्यर्थमपि
;
सेव्यते = आश्रीयते ; 'लोकै'रिति शेषः ;
उत्तरः चतुर्वर्गः तु = सत्य-धृति-क्षमा-अलोभात्मको धर्ममार्गस्तु
महात्मस्वेव सम्भवति
, न क्षुद्राशयेषु ॥१.९॥

तात्पर्यम्-
(इज्याध्ययनतपोदानाः, सत्यधृतिक्षमालोभाश्च धर्मोपार्जनमार्गाः।) तत्र पूर्वगणं न केवलं धर्माय, अपि तु दम्भप्रदर्शनादि-लौकिकप्रयोजनार्थमपि भजते नरः। अपरगणे स्थिताः गुणास्तु महापुरुषेषु, सन्तजनेषु एव दृश्यन्ते।

No comments:

Post a Comment