मूलम्-
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥१.१३॥
पदविभागः-
प्रत्याख्याने च दाने च सुख-दुःखे प्रिय-अप्रिये । आत्मा-औपम्येन
पुरुषः प्रमाणम् अधिगच्छति ॥१.१३॥
अन्वयः-
पुरुषः प्रत्याख्याने च दाने च सुख-दुःखे प्रिय-अप्रिये आत्मा-औपम्येन
प्रमाणम् अधिगच्छति ॥१.१३॥
प्रतिपदार्थः-
प्रत्याख्याने = प्रार्थनाभङ्गे, परतिरस्कारे वा ; सुखे = सुखप्रदाने, दुःखे = क्लेशदाने, दुःखोत्पादने च । प्रिये = इष्टाचरणे, अप्रिये = अनिष्टाचरणे
च ; आत्नौपम्येन = आत्मानमेव निदर्शनं कृत्वा ; प्रमाणं = निश्चयम् ; अधिगच्छति = लभते ; ॥१.१३॥
तात्पर्यम्-
परैः तिरस्कारे प्राप्ते, सुखे लब्धे, दुःखे अनुभूते
वा, प्रिये घटिते, अप्रिये सम्भूते वा-
किंविध अनुभवः भवतीति नरः कथं जानीयात्? तत्तदनुभवप्राप्तौ स्वस्मिन्
यथा भावना जागर्ति, तथैवान्येषामपि भवतीति आत्मनः उपमानेन अवगच्छेत्।
(इष्टात् सुखम् अनिष्टाद् दुःखञ्चोत्पद्यते इत्यादिकं स्वात्मौपम्येन ज्ञातुं शक्यते
इति यावत्)॥
No comments:
Post a Comment