Monday, May 16, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.12




मूलम्
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥१.१२॥

पदविभागः-
प्राणाः यथा आत्मनः अभीष्टाः भूतानाम् अपि ते तथा । आत्मा-औपम्येन भूतानां दयां कुर्वन्ति साधवः ॥१.१२॥

अन्वयः-
यथा आत्मनः प्राणाः अभीष्टाः ते भूतानाम् अपि तथा । साधवः आत्मा-औपम्येन भूतानां दयां कुर्वन्ति ॥१.१२॥

प्रतिपदार्थः-
आत्मनः = स्वस्य ; अभीष्टाः = प्रियाः ; भूतानां = स्वातिरिक्तानां सर्वेषां जीवानामपि ; ते = प्राणाः ; तथा = तथैव प्रियाः ; अत आत्मौपम्येन = स्वात्मानम् उपमानं कृत्वा ; साधवः = सज्जनाः, दयालवः ; भूतानां = जीवानां, प्राणिनां ; दयां कुर्वन्ति = अनुकम्पां, करुणां, कृपां वा दर्शयन्ति॥१.१२॥

तात्पर्यम्-
यथा स्वस्य प्राणाः स्वस्य अत्यन्तमिष्टाः भवन्ति, तथैव अन्येषां जीवानामपि ते अभीप्सिता भवन्ति। अतः साधवः अन्यानपि जीवान् आत्मनः समानमेव पश्यन्ति।

No comments:

Post a Comment