मूलम्-
मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥१.११॥
पदविभागः-
मरु-स्थल्यां यथा वृष्टिः क्षुधा-आर्ते भोजनं तथा । दरिद्रे
दीयते दानं सफलं पाण्डु-नन्दन ॥१.११॥
अन्वयः-
पाण्डु-नन्दन, यथा मरु-स्थल्यां वृष्टिः, क्षुधा-आर्ते
भोजनं, तथा दरिद्रे (यत्) दानं दीयते (तत्) सफलं (भवति) ॥१.११॥
प्रतिपदार्थः-
पाण्डुनन्दन = हे युधिष्ठिर! ; मरुस्थल्यां = मरुभूमौ,
निर्जलप्रदेशे ; यथा वृष्टिः = यथा वृष्टिः सफला,
नितरामुचिता ; क्षुधार्ते = बुभुक्षया पीडिताय
; तथा = तथैव ; दरिद्रे = धनहीनाय ;
यद्दानं दीयते तदपि सफलमित्यन्वयः ॥१.११॥
तात्पर्यम्-
हे युधिष्ठिर, यथा जलरहितदेशे वर्षणेन वृष्टिः सफला भवति,
भोजनेच्छोः अन्नदानेन क्षुधानिवारणेन च अनन्दानं सफलं भवति, तथैव निर्धनाय दत्तं दानं सफलं भवति। (जलं यत्र प्रभूतं तत्र वृष्टये न कोऽपि
आर्तः। अन्नं खादित्वा यः तृप्तः तस्य अन्नस्यावश्यकता नास्ति। तथैव धनिकाय धनदानेन
न लाभः। यत्र यन्नास्ति, तत्र तद्दातव्यम् इति यावत्।)
No comments:
Post a Comment