Monday, May 16, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.14



मूलम्-
मातृवत् परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥१.१४॥

पदाविभागः-
मातृवत् परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः ॥१.१४॥

अन्वयः-
परदारेषु मातृवत्, परद्रव्येषु लोष्टवत्, सर्वभूतेषु आत्मवत् (च) यः पश्यति सः पण्डितः ॥१.१४॥

प्रतिपदार्थः-
परदारेषु = परकलत्रेषु, परेषां भार्याविषये ; मातृवत् = मातृभावेन यः पश्यति ; लोष्टवत् = मृत्खण्डवत्, पाषाणपिण्डवत् वा ; पश्यतीति शेषः ; पण्डितः = तत्त्वज्ञः ॥१.१४॥

तात्पर्यम्-
परनराणां पत्नीः स्वस्य जननी इति भावनया, परेषां धनानि पाषाणखण्डा इति धिया, सर्वान् प्राणिनः आत्मा इति बुद्ध्या- यः भावयति, सः विद्वान् भवति॥

No comments:

Post a Comment