मूलम्-
न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥१.१७॥
पदविभागः-
न धर्मशास्त्रं पठति इति कारणं न च
अपि वेद-अध्ययनं दुरात्मनः । स्वभावः एव अत्र तथा अतिरिच्यते यथा प्रकृत्या मधुरं
गवां पयः ॥१.१७॥
अन्वयः-
धर्मशास्त्रं पठति इति कारणं न ; वेद-अध्ययनं न च अपि
(कारणं)। दुरात्मनः स्वभावः एव अत्र- यथा प्रकृत्या मधुरं गवां पयः- तथा
अतिरिच्यते ॥१.१७॥
प्रतिपदार्थः-
धर्मशास्त्रं = पुराणस्मृत्यादीनि ; पठति = अध्ययनं करोति ; दुरात्मनः =
दुष्टस्वभावस्य ; (स्वभावपरिवर्तने)
कारणं = हेतुः ;वेदाध्ययनं =
वेदस्य गुरुमुखतः अध्ययनं ; स्वभावः =
स्वतःसिद्धः, स्वकीयभावः ; अतिरिच्यते =
सर्वोन्नतं, सर्वत्र
बलवत् ; गवां पयः =
दुग्धं ; प्रकृत्या =
संसिद्ध्या ; मधुरं =
गुड-इक्ष्वादिस्थः मिष्टस्वादुभावः ॥१.१७॥
तात्पर्यम्-
धर्मशास्त्रं पठति, वेदाध्ययनं करोति
इति कारणेन (स्वभावः) न परिवर्तते। दुर्जनस्य स्वभावः सर्वस्मात् अतिक्रम्य भवति।
धेनूनां दुग्धं स्वभावत- एव मधुरं भवति (तत्र न कोऽपि बाह्यप्रयत्नः आवश्यकः इति
यावत्।)☘
[धर्मशास्त्र-पठनं, वेदाध्ययनं वा दुष्टानां खलानां दुरात्मनां स्वभावपरिवर्तने
न शक्तं भवति, स्वभावस्य
सर्वतो बलवत्त्वात् । अत एव हि कटुकषाय-प्राय-तृणादि-भक्षणेऽपि, दुग्धं स्वभावेनैव
मधुरं भवति, एवं-
मधुरपयःपानेऽपि भुजङ्गानां स्वभावतो विषमेव भवति,नाऽमृतमिति भावः]
No comments:
Post a Comment