Tuesday, May 17, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.16




मूलम्-
दातव्यमिति यद् दानं दीयतेऽनुपकारिणि ।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥१.१६॥

पदविभागः-
दातव्यम् इति यद् दानं दीयते अनुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥१.१६॥

अन्वयः-
यद् दानं अनुपकारिणि दातव्यम्’ इति देशे काले च पात्रे च दीयते, तद् सात्त्विकं दानं विदुः ॥१.१६॥

प्रतिपदार्थः-
दातव्यमिति = मया अवश्यमिदं कस्मैचन सत्पात्राय देयम् ; इति = इति बुद्ध्या ; दीयते = अर्पयते ; अनुपकारिणि = यस्मिन् पुरुषे आत्मनः लाभप्रत्यपेक्षा नास्ति, यस्मात् न किमपि स्वार्थं न साध्यते ; देशे = तीर्थादौ, सुक्षेत्रेषु ; काले = सूर्येन्दुग्रहणादौ, सत्काले ; पात्रे = योग्ये, सत्पात्रे, विदुषि ; (यद्दानं दीयते) तत् सात्त्विकमित्यन्वयः ॥१.१६॥

तात्पर्यम्-
‘मया अवश्यं कस्मैचन सत्पात्राय धनं देयम्’ इति (निःस्वार्थबुद्ध्या) प्रतिफलानापेक्षया साधुस्थले, साधुकाले, साधुपुरुषाय दत्तं दानं सात्विकं दानमिति व्यपदिश्यते॥🌻

No comments:

Post a Comment