मूलम्-
अवशेन्द्रियचित्तानां हस्तिस्नानमिव
क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां
विना ॥१.१८॥
पदविभागः-
अवश-इन्द्रिय-चित्तानां हस्ति-स्नानम्
इव क्रिया । दुर्भग-आभरण-प्रायः ज्ञानं भारः क्रियां विना ॥१.१८॥
अन्वयः-
अवश-इन्द्रिय-चित्तानां क्रिया
हस्ति-स्नानम् इव । क्रियां विना ज्ञानं भारः। दुर्भग-आभरण-प्रायः। ॥१.१८॥
प्रतिपदार्थः-
अवशेन्द्रिय-चित्तानां ~ अवशानि इन्द्रियाणि, चित्तं च येषान्ते, तेषाम्-अवशेन्द्रिय-चित्तानाम्
= निरवग्रहेन्द्रिय-स्वान्तानां पुंसाम् ; क्रिया = धर्माचरणादिकं कर्म ; हस्तिस्नानम् इव = गजस्नानमिव, निष्फलम् ; दुर्भगाया आभरणानीव-
दुर्भगाभरणप्रायः = दुष्ट-दुर्भाग्य-स्त्रीधारित-भूषणवत्, ज्ञानं = विद्या ; क्रियां विना =
तद्विहिताचरणं विना, भार एव
॥१.१८॥
तात्पर्यम्-
येषां चित्तं स्वाधीनं नास्ति, तैराचरितं
धर्माचरणादिकं कर्म व्यर्थं भवति। यथा- गजाः स्नानं कृत्वा स्नानानन्तरमेव
धूलिप्रक्षेपादिना पुनरात्मनो मलिनतामापादयन्ति। अपि च- आचरणं विना शुष्कज्ञानं भारभूतं भवति।
यथा- दुर्भाग्यवत्याः स्त्रियः आभरणैः शोभा न वर्धते, केवलं भारवत्त्वमेव
तथा।
[दुर्भगाधृताभरणैः पत्यादिमनोरञ्जनाऽभावाद् भारवत्तत्सर्वं
तस्याः क्लेशप्रदमेव । यथा नानाभरणभूषिताऽपि खलु वन्ध्या, दुष्टा कुरूपा वा
स्त्री न शोभते, न वा सा
पत्युर्मनः प्रीणाति, एवं
ज्ञानवानपि तदुक्ताचारशून्यो नैव शोभते, इत्याशयः । अत्र प्रायश्शब्दो बाहुल्येऽव्ययम्। अकारान्तो
वा प्रायशब्दः पुंसि । दुर्भगाया भरणं पालन, तत्तुल्यं निष्फलमिति वाऽर्थः।]☘
No comments:
Post a Comment