Tuesday, May 24, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.20



मूलम्-
सर्वस्य हि परीक्ष्यन्ते स्वभावो नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥१.२०॥

पदविभागः-
सर्वस्य हि परीक्ष्यन्ते स्वभावः न इतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावः मूर्ध्नि वर्तते ॥१.२०॥

अन्वयः-
सर्वस्य हि स्वभावः (परीक्ष्यते) न इतरे गुणाः परीक्ष्यन्ते । सर्वान् गुणान् अतीत्य हि स्वभावः मूर्ध्नि वर्तते ॥१.२०॥

प्रतिपदार्थः-
सकलस्यापि = गुणिनःनिर्गुणस्य वास्वभावाः = प्रकृतिःसंस्कारादयः ; इतरे = विद्वत्त्-औदार्य- कुशलत्वादयः गुणाः ; 'न परीक्ष्यन्तेइति शेषः ; कुत एतदत आह- अतीत्येति ; सर्वान् गुणान् = सल्लक्षणान् ; अतीत्य = अतिक्रम्य ; स्वभावः = प्रकृतिरेव ;मूर्ध्नि = सर्वेषां गुणानामुपरिवर्तते = प्रभवतीत्यर्थः ॥१.२०॥

तात्पर्यम्-
सर्वेषां मनुष्याणां स्वभावः परीक्ष्यते। इतरे गुणाः न परीक्ष्यन्ते। सर्वान् गुणान् अतिक्रम्य स्वभावः शिरःस्थायी विराजते।

Sunday, May 22, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.18

मूलम्-
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥१.१८॥

पदविभागः-
अवश-इन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया । दुर्भग-आभरण-प्रायः ज्ञानं भारः क्रियां विना ॥१.१८॥

अन्वयः-
अवश-इन्द्रिय-चित्तानां क्रिया हस्ति-स्नानम् इव । क्रियां विना ज्ञानं भारः दुर्भग-आभरण-प्रायः ॥१.१८॥

प्रतिपदार्थः-
अवशेन्द्रिय-चित्तानां ~ अवशानि इन्द्रियाणिचित्तं च येषान्तेतेषाम्-अवशेन्द्रिय-चित्तानाम् = निरवग्रहेन्द्रिय-स्वान्तानां पुंसाम् ; क्रिया = धर्माचरणादिकं कर्म ; हस्तिस्नानम् इव = गजस्नानमिवनिष्फलम् ; दुर्भगाया आभरणानीव- दुर्भगाभरणप्रायः = दुष्ट-दुर्भाग्य-स्त्रीधारित-भूषणवत्ज्ञानं = विद्या ; क्रियां विना = तद्विहिताचरणं विनाभार एव ॥१.१८॥

तात्पर्यम्-
येषां चित्तं स्वाधीनं नास्तितैराचरितं धर्माचरणादिकं कर्म व्यर्थं भवति। यथा- गजाः स्नानं कृत्वा स्नानानन्तरमेव धूलिप्रक्षेपादिना पुनरात्मनो मलिनतामापादयन्ति अपि च- आचरणं विना शुष्कज्ञानं भारभूतं भवति। यथा- दुर्भाग्यवत्याः स्त्रियः आभरणैः शोभा न वर्धतेकेवलं भारवत्त्वमेव तथा।

[दुर्भगाधृताभरणैः पत्यादिमनोरञ्जनाऽभावाद् भारवत्तत्सर्वं तस्याः क्लेशप्रदमेव । यथा नानाभरणभूषिताऽपि खलु वन्ध्यादुष्टा कुरूपा वा स्त्री न शोभतेन वा सा पत्युर्मनः प्रीणातिएवं ज्ञानवानपि तदुक्ताचारशून्यो नैव शोभतेइत्याशयः । अत्र प्रायश्शब्दो बाहुल्येऽव्ययम्। अकारान्तो वा प्रायशब्दः पुंसि । दुर्भगाया भरणं पालनतत्तुल्यं निष्फलमिति वाऽर्थः।]

हितोपदेश-सुभाषित-श्लोकाः - 1.17



मूलम्-
न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥१.१७॥

पदविभागः-
न धर्मशास्त्रं पठति इति कारणं न च अपि वेद-अध्ययनं दुरात्मनः । स्वभावः एव अत्र तथा अतिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥१.१७॥

अन्वयः-
धर्मशास्त्रं पठति इति कारणं न ; वेद-अध्ययनं न च अपि (कारणं)। दुरात्मनः स्वभावः एव अत्र- यथा प्रकृत्या मधुरं गवां पयः- तथा अतिरिच्यते ॥१.१७॥

प्रतिपदार्थः-
धर्मशास्त्रं = पुराणस्मृत्यादीनि ; पठति = अध्ययनं करोति ; दुरात्मनः = दुष्टस्वभावस्य ; (स्वभावपरिवर्तने) कारणं = हेतुः ;वेदाध्ययनं = वेदस्य गुरुमुखतः अध्ययनं ; स्वभावः = स्वतःसिद्धःस्वकीयभावः ; अतिरिच्यते = सर्वोन्नतंसर्वत्र बलवत् ; गवां पयः = दुग्धं ; प्रकृत्या = संसिद्ध्या ; मधुरं = गुड-इक्ष्वादिस्थः मिष्टस्वादुभावः ॥१.१७॥

तात्पर्यम्-
धर्मशास्त्रं पठतिवेदाध्ययनं करोति इति कारणेन (स्वभावः) न परिवर्तते। दुर्जनस्य स्वभावः सर्वस्मात् अतिक्रम्य भवति। धेनूनां दुग्धं स्वभावत- एव मधुरं भवति (तत्र न कोऽपि बाह्यप्रयत्नः आवश्यकः इति यावत्।)
[धर्मशास्त्र-पठनंवेदाध्ययनं वा दुष्टानां खलानां दुरात्मनां स्वभावपरिवर्तने न शक्तं भवतिस्वभावस्य सर्वतो बलवत्त्वात् । अत एव हि कटुकषाय-प्राय-तृणादि-भक्षणेऽपिदुग्धं स्वभावेनैव मधुरं भवतिएवं- मधुरपयःपानेऽपि भुजङ्गानां स्वभावतो विषमेव भवति,नाऽमृतमिति भावः]