Sunday, April 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.44

मूलम्-
अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते ।
आकरे पद्मरागाणां जन्म काचमणेः कुतः॥४४॥

पदविभागः-
अस्मिन् तु निर्गुणं गोत्रे न अपत्यम् उपजायते । आकरे पद्म-राणाणां जन्म काचमणेः कुतः॥४४॥

अन्वयः-
अस्मिन् गोत्रे तु निर्गुणम् अपत्यम् न उपजायते । पद्म-रागाणाम् आकरे काचमणेः जन्म कुतः॥४४॥

प्रतिपदार्थः-
अस्मिन् = भवतां प्रसिद्धे ; गोत्रे = वंशे, (अत्र) राजकुले ; निर्गुणं = गुणशून्यम् ; अपत्यं = सन्तानं, पुत्र इति यावत्, तोकं ; न उपजायते = न उत्पद्यते ; यतः ; पद्मरागाणां = तन्नामविशिष्ट-मणयः तेषां ; आकरे = खनौ ; काचमणेः = काचस्य ; जन्म = उत्पत्तिः ; कुतः = कस्माद् हेतोः भवति? नैव संभवतीत्यर्थः ॥४४॥

तात्पर्यम्-
(सद्गुणविशिष्टे) अस्मिन् राजकुले गुणशून्यं सन्तानं न कदापि सञ्जायते। (अमूल्ये) पद्मरागमणीनाम् उत्पत्तिस्थाने (अयोग्यः) काचमणिः कथमुत्पद्यते।

No comments:

Post a Comment