Sunday, April 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.46



मूलम्-
यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्सन्निधानेन हीनवर्णोऽपि दीप्यते॥४६॥

पदविभागः-अन्वयः-
यथा उदयगिरेः द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्सन्निधानेन हीनवर्णः अपि दीप्यते॥४६॥

प्रतिपदार्थः-
उदयगिरेः = उदयपर्वतस्य ; द्रव्यं = पाषाणवृक्षादिकं वस्तुजातमपि ; सन्निकर्षेण = सामीप्यं, सम्पर्कः ; दीप्यते = सूर्यसम्पर्कात् प्रकाशते, शोभते ; हीनवर्णः = बुद्धिविषये नीचः, मूढः ; दीप्तिरहितोऽपि = प्रज्ञादिगुणैः विहीनोऽपि; दीप्यते = संवर्ध्यते ॥४६॥

तात्पर्यम्-
यथा सूर्योदयानन्तरम् उदयाचलसमीपे स्थितं सर्वं वस्तु सूर्यप्रकाशसम्पर्केण शोभते, तथैव मूर्खजनः सतां सन्निधौ विवेकशीली भवति। तस्य बुद्धिविकासो जायते।

No comments:

Post a Comment