Sunday, April 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.2

मूलम्-
असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत्॥१.२॥

पदविभागः-
असाधनाः वित्त-हीनाः बुद्धिमन्तः सुहृन्मताः । साधयन्ति आशु कार्याणि काक-कूर्म-मृग-आखु-वत्॥१.२॥

अन्वयः-
असाधनाः वित्त-हीनाः बुद्धिमन्तः सुहृन्मताः । काक-कूर्म-मृग-आखु-वत् आशु कार्याणि साधयन्ति ॥१.२॥

प्रतिपदार्थः-
असाधनाः = उपकरणवर्जिताः ; वित्तहीनाः = धनवर्जिताः ; (अपि-) बुद्धिमन्तः = मनीषिणः ; सुहृत्तमाः = परस्परहितैषिणः, परस्परं मित्रतां गताः सहृदयाः ; आशु = शीघ्रम् । काककूर्ममृगाखुवत् = वायस-कच्छपमूषकवत् ॥१.२॥

तात्पर्यम्-
साधनरहिताः, धनहीनाः चापि धीमन्तः, मित्रतासम्पन्नाः (ये जनाः) ते (आगामिन्यां कथायां) वायस-कच्छपमूषकवत् कार्याणि शीघ्रं साधयन्ति॥

No comments:

Post a Comment