Monday, April 11, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.3



मूलम्-
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥१.३॥

पदविभागः-
शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ॥१.३॥

अन्वयः-
शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढम् आविशन्ति। पण्डितम् न (आविशन्ति) ॥१.३॥

प्रतिपदार्थः-
शोक-स्थान-सहस्राणि = सहस्रशः शोककारणानि, शोकावसरा इत्यर्थः ; भयस्थानशतानि = शतशो भयहेतवः ; दिवसे-दिवसे = प्रतिदिनमेव ; मूढं = मूर्खमेव ; आविशन्ति = आश्रयन्ते, व्याकुलं कुर्वन्ति ; परन्तु पण्डितं = विद्वांसन्तु ; न = नैव आविशन्ति ॥१.३॥

तात्पर्यम्-
सहस्रशः शोककारणानि शतशो भयहेतवः प्रतिदिनमेव मूर्खम् व्याकुलं कुर्वन्ति ; परन्तु विद्वांसन्तु नैव पीडयन्ति ॥

No comments:

Post a Comment