Sunday, April 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.1



मूलम्-
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा॥१.१॥

पदविभागः-
काव्य-शास्त्र-विनोदेन कालः गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा॥१॥

अन्वयः-
धीमताम् कालः काव्य-शास्त्र-विनोदेन गच्छति । मूर्खाणां तु व्यसनेन, निद्रया कलहेन वा (गच्छति)॥१॥

प्रतिपदार्थः-
काव्यशास्त्रविनोदेन ~ काव्यञ्च शास्त्रञ्च- काव्यशास्त्रे, ताभ्यां यो विनोदस्तेन ~ यद्वा- काव्यमेव शास्त्रन्तेन विनोद इति विग्रहः = काव्यशास्त्र-पर्यालोचनेनेत्यर्थः ; धीमतां च = विदुषां ; कालः = जीवितसमयः ; गच्छति = सुखं याति ; मूर्खाणान्तु व्यसनेन = स्त्रीद्यूत-मद्यपानादिव्यसनेन ; किञ्च- निद्रया = स्वापेन ; कलहेन = विवादेन च ; कालो गच्छति ॥९॥

तात्पर्यम्-
विदुषां, विज्ञानां च जीवनसमयः सत्काव्यानां, शास्त्रविज्ञानग्रन्थानां च पठन-चर्चादिना याति। मूढजनानां कालस्तु आत्मनः अवनतिकारकैः दुर्व्यसनैः वा, शयनेन, परस्परं विवादैः वा याति।

No comments:

Post a Comment