मूलम्-
अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा ।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥१.६॥
पदविभागः-
अनिष्टाद् इष्टलाभे अपि न गतिः जायते शुभा । यत्र आस्ते विष-संसर्गः
अमृतं तद् अपि मृत्यवे ॥१.६॥
अन्वयः
अनिष्टाद् इष्टलाभे अपि शुभा गतिः न जायते । यत्र विष-संसर्गः
आस्ते (तत्र) अमृतं, तद् अपि मृत्यवे ॥१.६॥
प्रतिपदार्थः-
अनिष्टाद् = अशुभोपायात्, अयुक्तेन मार्गेण, दुष्टाद्वा
पुंसः ; इष्टलाभे अपि = इष्टं वस्तु प्राप्यते, तथापि ; गतिः = परिणतिः, फलं ;
शुभा = कल्याणकरी, क्षेमकारी ; यत्रेति । विष-संसर्गः = विषसंपृक्तम्, गरलं ;
अमृतं = पीयूषमपि ; मृत्यवे = मरणकारी,
मृत्युप्रदं भवतीत्यर्थः ॥१.६॥
तात्पर्यम्-
अयुक्तेन मार्गेण इष्टं वस्तु प्राप्यते, तथापि तस्य परिणामः न मङ्गलकारी।
यस्मिन् स्थाने गरलेन संयुक्तः, तत्र अमृतमपि प्राणहारकद्रव्यं
भवति।
No comments:
Post a Comment