मूलम्-
कीटोऽपि सुमनः सङ्गादारोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥४५॥
पदविभागः-
कीटः अपि सुमनः सङ्गाद् आरोहति सतां शिरः । अश्मा अपि याति देवत्वं
महद्भिः सुप्रतिष्ठितः॥४५॥
अन्वयः-
कीटः अपि सुमनः सङ्गाद् सतां शिरः आरोहति । अश्मा अपि महद्भिः
सुप्रतिष्ठितः (भूत्वा) देवत्वं याति ॥४५॥
प्रतिपदार्थः-
कीटः = भृङ्गादिः । पामरश्च । सुमनः सङ्गात् = पुष्पसम्बन्धात्
। विद्वत्सङ्गाच्च । सतां = सज्जनानां, महताञ्च । शिरः = मस्तकमपि । आरोहति = तत्पूज्यो भवति
। अश्मा = पाषाणः । महद्भिः = विद्वद्भिः, श्रेष्ठैश्च । सुप्रतिष्ठितः
= स्थापितः ॥४५॥
तात्पर्यम्-
(अस्मिन् पद्ये अल्पवस्तूनां महद्वस्तुसाङ्गत्येन महत्त्वप्राप्तिः
उक्ता।) कीटाः पुष्पाणां साङ्गत्येन सज्जनस्य शिरसि न्यस्यते। पाषाणश्च श्रेष्ठैः जनैः
मन्दिरादिषु संस्थापितः, प्रतिष्ठितः सन् देवः भूत्वा पूज्यत्वं
प्राप्नोति। (अत्र कीटस्य, पाषाणस्य च तुलना पामरजनेन,
पुष्पानां, प्रतिष्ठया देवत्वप्राप्तेः च पण्डितजनेन
तुलना कृता।)🍀
No comments:
Post a Comment