Wednesday, April 20, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.8



मूलम्-
इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥१.८॥

पदविभागः-अन्वयः-
इज्या-अध्ययन-दानानि तपः सत्यं धृतिः क्षमा । अलोभः इति मार्गः अयं धर्मस्य अष्टविधः स्मृतः ॥१.८॥

प्रतिपदार्थः-
इज्या = यज्ञः ; अध्ययनं = (गुरुमुखतः उच्चारितस्य पुनः उच्चारणं) पठनं ; दानं = अन्येभ्यः धनादिवस्तुत्यागः ; तपः = धार्मिकफलोद्दिष्टं विधियुक्तकर्म ; सत्यं = यथार्थं, अवितथं ; धृतिः = धैर्यम् ; क्षमा = सहिष्णुता, सहनं ; अलोभः = तृष्णाराहित्यं ; इति ; अयं धर्मस्य = शुभादृष्टस्य ; मार्गः = पन्थाः, धर्मोपार्जने उपाय-भूतः ; अष्टविधः ; स्मृतः = कथितः ॥१.८॥

तात्पर्यम्-
धर्मोपार्जने उपायभूताः अष्टौ मार्गाः। ते- यज्ञः, (वेद)पठनं, धनादीनाम् आर्तेभ्यः वितरणं, वैधशारीरक्लेशः, सत्यं, धैर्यं, सहिष्णुता, अतृष्णा चेति॥

हितोपदेश-सुभाषित-श्लोकाः - 1.6



मूलम्-
अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा ।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥१.६॥

पदविभागः-
अनिष्टाद् इष्टलाभे अपि न गतिः जायते शुभा । यत्र आस्ते विष-संसर्गः अमृतं तद् अपि मृत्यवे ॥१.६॥

अन्वयः
अनिष्टाद् इष्टलाभे अपि शुभा गतिः न जायते । यत्र विष-संसर्गः आस्ते (तत्र) अमृतं, तद् अपि मृत्यवे ॥१.६॥

प्रतिपदार्थः-
अनिष्टाद् = अशुभोपायात्, अयुक्तेन मार्गेण, दुष्टाद्वा पुंसः ; इष्टलाभे अपि = इष्टं वस्तु प्राप्यते, तथापि ; गतिः = परिणतिः, फलं ; शुभा = कल्याणकरी, क्षेमकारी ; यत्रेति । विष-संसर्गः = विषसंपृक्तम्, गरलं ; अमृतं = पीयूषमपि ; मृत्यवे = मरणकारी, मृत्युप्रदं भवतीत्यर्थः ॥१.६॥

तात्पर्यम्-
अयुक्तेन मार्गेण इष्टं वस्तु प्राप्यते, तथापि तस्य परिणामः न मङ्गलकारी। यस्मिन् स्थाने गरलेन संयुक्तः, तत्र अमृतमपि प्राणहारकद्रव्यं भवति।

हितोपदेश-सुभाषित-श्लोकाः - 1.4



मूलम्-
उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम्।(पाठ. किमद्य सुकृतं कृतम् ।)
मरणव्याधिशोकानां किमद्य निपतिष्यति ॥१.४॥

पदविभागः-
उत्थाय उत्थाय बोद्धव्यं महद्-भयम् उपस्थितम्। (पाठ. किम् अद्य सुकृतं कृतम्) । मरण-व्याधि-शोकानां किम् अद्य निपतिष्यति ॥१.४॥

अन्वयः-
उत्थाय उत्थाय उपस्थितं महद्-भयम् बोद्धव्यं । (पाठ. अद्य किम् सुकृतं कृतम्) । अद्य मरण-व्याधि-शोकानां किम् निपतिष्यति (इति)॥१.४॥

प्रतिपदार्थः-
उत्थाय उत्थाय = मुहुः प्रबुध्य ; उपस्थितं = प्राप्तं ; महद्भयं = महाभीतिः ; बोद्धव्यं=ज्ञातव्यम् ; किं ज्ञातव्यमत आह- मरणेति ; मरण-व्याधि-शोकानां = मृत्यु-रोग-मानसिकपीडानां मध्यात् ; निपतिष्यति = आपतिष्यति  ॥१.४॥

तात्पर्यम्-
जीवैः प्रतिदिनं (प्रातः निद्रातः) समुत्थाय विचारणीयं (स्मर्तव्यम्) । संसारे स्थिताभ्यः पीडाभ्यः का वा अद्य माम् आगत्य पीडयेदिति (सर्वदा सावधानेन भवितव्यम्। विपत्तये सन्नद्धतया स्थातव्यम्)